OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 9, 2025

 राष्ट्रियकायिकक्रीडा - अनिमेषः अतिशीघ्रधावकः, सुदेष्णा धाविका। 

पतकश्रेण्यां सर्वीसस् प्रथमस्थाने।

द्वितीये तृतीये यथाक्रमं कर्णाटकं महाराष्ट्रं च। 

दह्रादूण्> उत्तराखण्डे प्रचाल्यमानायां राष्ट्रियक्रीडायाः अंशतया ह्यः दह्रादूणस्थे 'गंगा अत्लटिक्स्' क्रीडाङकणे १० प्रकरणेषु स्पर्धाः परिसमाप्ताः। पुरुषविभागस्य १०० मीटर् धावनस्पर्धायां ओडीशायाः अनिमेषः सुवर्णपतकं सम्प्राप्य अतिशीघ्रः धावकः अभवत्। १०. २८ सेकन्ड् अस्ति तेनाङ्कितः समयः। महाराष्ट्रस्य सुदेष्णा शिवाङ्करः ११. ७६ सेकन्ड् समयेन १०० मीटर् धावित्वा अतिशीघ्रा धाविका जाता। 

  महिलानां यष्ट्युत्कूर्दने  [Pole wat] सुवर्णरजतपतकद्वयमपि तमिलनाटेन सम्प्राप्तम्। कांस्यं  तु केरलस्य मरिया जय्सण् प्राप्तवती। दीर्घोत्प्लुते उत्तरप्रदेशस्य षानवास् खानः सुवर्णं, तमिलनाटस्य वि श्रीरामः रजतं, केरलस्य अनुरागः कांस्यं चालभत। 

  पतकश्रेण्यां सर्वीसस् संघः ४२ सुवर्णानि प्राप्य प्रथमस्थाने वर्तते। द्वितीयस्थाने कर्णाटकं विद्यते। तृतीये तु महाराष्ट्रमस्ति।