OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 10, 2025

 छत्तीसगढ़े मावोवाद्याखेटनं - ३१ मावोवादिनः व्यापादिताः। 

द्वौ सैनिकौ वीरमृत्युं प्रापतुः।

बिजापुरं> छत्तीसगढ़े बिजापुरे सुरक्षासेना-मावोवादिनोः मिथः विधत्ते संग्रामे ३१ मावोवादिनः हताः। तेषु ११ महिलाः अन्तर्भवन्ति। महानायुधसञ्चयः सङ्गृहीतश्च। संघट्टने द्वयोः सुरक्षाभटयोः वीरमृत्युरभवत्। 

  रविवासरस्य प्रातः इन्द्रावती राष्ट्रियोन्द्यानस्य वनान्तर्भागे सुरक्षासेनायाः मार्गणावसरे आसीत् प्रतिद्वन्द्वः। अतीते मासचतुष्टये जातः महत्तमः प्रतिद्वन्द्वः अस्ति ह्यः जातः इति सर्वकाराधिकारिभिरुक्तम्।