OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 10, 2025

 मणिप्पुरमुख्यमन्त्री त्यागपत्रं समार्पयत्। विधानसभा शीतीकृता; राष्ट्रपतिप्रशासनं झटिति न स्यात्। 

बीरेनसिंहः। 

इम्फालः> वंशीयसङ्घर्षेण क्लेशमनुभूयमानस्य मणिप्पुरराज्यस्य मुख्यमन्त्री बीरेन् सिंहः त्यागपत्रं समार्पयत्। विधानसभायां विपक्षेण कोण्ग्रसेन अविश्वासप्रकटनपत्रं अवतारयिष्येदिति सूचनायामागतायाम् आसीत् भाजपा मन्त्रिसभायाः स्थानत्यागः। 

  रविवासरे सायं बीरेनसिंहः  मन्त्रिभिस्साकं राजभवनं प्राप्य राज्यपालाय अजयकुमार भल्लाय त्यागपत्रं समर्पितवान्। राज्ये  झटित्येव राष्ट्रपतिप्रशासनं न प्रख्यापयिष्यतीति सूच्यते। 

  मणिप्पुरे वंशीययुद्धं परिहर्तुं मुख्यमन्त्री बीरेनसिंहः पराजितवानिति आक्षेपः राज्ये बहिश्च उन्नीत आसीत्। स्वराजनैतिकदलाभ्यन्तरे अपि सः विमर्शमभिमुखीक्रियमाणः आसीत्।