OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 14, 2025

 अद्य पुल्वामा दिनम्।

नवदिल्ली> राष्ट्राय स्वप्राणान् बलिदानं कृतवतां धीरभटानामनुस्मरणदिवसः अद्य भवति। २०१९ फेब्रुवरि १४ तमे दिनाङ्के जम्मु काश्मीरस्थायां पुल्वामायां सि आर् पि एफ् भटानां वाहनं प्रति जय्षे मुहम्मदभीकरैः कृतेन आक्रमणेन ४० भटाः वीरमृत्युं प्रापुः। अस्य १२ तमे दिने भारतेन नियन्त्रणरेखामतिक्रम्य पाकिस्थाने बालक्कोट्टस्थानि भीकरपरिशीलनकेन्द्राणि अग्निशस्त्रैः शिथिलीकृत्य प्रत्युत्तरं कृतम्।