ब्रिटनस्य युद्धविमानम् आगामि सप्ताहे प्रतिनिवर्तिष्यते।ब्रिटीषनौसेनायाः एफ् ३५ बी युद्धविमानम्।
अनन्तपुरी> ब्रिटीषनौसेनायाः एफ् ३५ बी इति युद्धविमानस्य साङ्केतिकदोषाः परिहृताः। ब्रिटनस्य नौसेनाधिकारिणः अनुज्ञालब्धिमनुसृत्य विमानं अनन्तपुरीतः उड्डायित्वा एव प्रतिनेष्यति।
आरबसमुद्रे सैनिकाभ्ये क्रियमाणे इन्धनशोषणेन जूण् २४ तमे दिनाङ्के आसीत् विमानम् अनन्तपुर्यामवतारितम्। अनन्तरं यन्त्रक्षमतायां दोषः अभवत्।