यू एस् मध्यकालीननिर्वाचनम्।
ट्रम्पस्य प्रत्याघातः।
डमोक्राट् दलः अग्रे। 
डोनाल्ड ट्रम्पः।
वाषिङ्टणः> यू एस् राष्ट्रे उपरिसभा [Senate], जनप्रतिनिधिसभा इत्येनं सभाद्वयं प्रति सम्पन्ने मध्यकालीननिर्वाचने राष्ट्रपतेः डोनाल्ड ट्रम्पस्य महान् प्रत्याघातः। सभाद्वयस्यापि नियन्त्रणं विपक्षस्य डेमोक्राट्दलस्य अधीने आगच्छति। शतं स्थानेपु ५४ स्थानेषु डेमोक्राट्दलस्थानाशिनः अग्रगामिनः वर्तन्ते।
४३५ जनप्रतिनिधिसभासु २२८ स्थानेषु डेमोक्राट्दलस्थानाशिनः विजयीभूताः। राज्यपालेषु २८ संख्याकाः डमोक्राटीयाः विजिताः। २० स्थानेषु ट्रम्पस्य दलीयाः विजिताः। ट्रम्पस्य सुरक्षितस्थानानि बहूनि विनष्टानि। आगामिवर्षद्वये शासनाय डोनाल्ड ट्रम्पः नितरां क्लेशिष्यते इति अभिज्ञाः वदन्ति।