इराने पुनरपि यू एस् आक्रमणम्।
टेहरानं> अल्पकालीनविरामानन्तरम् इराने पुनरपि अमेरिकायाः आक्रमणम्। होर्मुस् समुद्रसङ्कोचतटे वर्तमानानि इरानस्य स्थानानि लक्ष्यीकृत्य ह्रस्वमाक्रमणं कृतमिति यू एस् सेनया निगदितम्।
इरानस्याधीने वर्तमाने खेषमद्वीपे, हेनगामद्वीपे, बन्दार् अब्बास् इत्यत्र च स्फोटनानि वृत्तान्तीकृतानि। यू एसे निर्वाचनाय होरासु अवशिष्टेषु आसीदिदम् आक्रमणम्।