OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 16, 2025

 उत्तराखण्डे उदग्रयानदुर्घटनायां सप्त मरणानि। 

रुद्रप्रयागः> उत्तराखण्डे केदारनाथात् प्रतिनिवृत्तान् तीर्थाटकान् वहत् उदग्रयानं विशीर्य सप्त जनाः मृताः। मृतेषु यानचालकः, द्विवयस्का बालिका च अन्तर्भवतः। 

    'आर्यन् प्रैवट् लिमिटड्' संस्थायाः बेल् ४०७ इति उदग्रयानं रविवासरे उषसि गौरीकुण्डस्य केदारघट्टस्थस्य त्रियुगिनारायणस्य च मध्ये वनं प्रपतितमासीत्। पर्यावरणदुष्प्रभावः अस्ति दुर्घटनाहेतुरिति सूच्यते। केदारनाथतीर्थाटनस्य आरम्भात्परं पञ्चमी उदग्रयानदुर्घटना भवत्येषा।

 अग्निवर्षणे इरानः इस्रयेलश्च। 

इराने १२८ मरणानि; इस्रयेले १३। 

इस्रयेले टेल् अवीवे इरानकृते अग्निबाणप्रयोगेण जातं स्फोटनम्। 

टेल् अवीव् /टेहरान्> पश्चिमेष्याम् आशङ्कायाः कण्टकाग्रे स्थापयत् इरान-इस्रेलयोः युद्धं कठिनायते। रविवासरे इस्रयेलस्य मध्योत्तरप्रदेशेषु इरानेन कृते बालिस्टिक् अग्निबाणाक्रमणे दश जनाः हताः। तेषु पञ्च युक्रेनदेशीयाः इति सूच्यते। द्विशताधिके जनाः व्रणिताः। अनेन इस्रयेले त्रयोदश जनानां प्राणहानिरभवत्। 

  इरानस्य तैलेन्धनसम्भरणशालाः, सैनिककेन्द्राणि, आणवनिलयाः इत्येतेषु स्थानेषु गतदिने अपि इस्रयेलयुद्धविमानैः बोम्बवर्षणं कृतम्। इराने इतःपर्यन्तं १२८ जनाः मृत्युमुपगताः।

 शुभांशोः यात्रा जूण् १९ तमे। 

शुभांशु शुक्लः। 

नवदिल्ली> व्योमसेनायाः ग्रूप् केप्टन् पदीयः शुभांशु शुक्लेन सह त्रीणां अन्तरिक्षयात्रा पुनरपिपरिवर्तिता। जूण् १९ तमे दिनाङ्के तस्य यात्रा भविष्यतीति सर्वकारेण निगदितम्। दुष्टपर्यावरणेन, साङ्केतिकदोषेण च द्विवारं यात्रा परिवर्तितम्।

Sunday, June 15, 2025

 केरले अतिवृष्टिः। 

एकादश जनपदेषु विद्यालयानां प्रवृत्तिविरामः। 

कोच्ची> केरले सर्वत्र  दिनद्वयेन अतिवृष्टिः अनुवर्तते इत्यतः सोमवासरे ११ जनपदानां विद्यालयेषु प्रवृत्तिविरामः उद्घोषितः। 

बहुषु जनपदेषु अतिवृष्ट्या जनजीवनं दुस्सहमभवत्। निम्नप्रदेशाः जलनिमग्नाः जाताः। यातायातसुविधाः स्थगिताः।

 पश्चिमेष्या प्रक्षुब्धा। 

आक्रमण-प्रत्याक्रमणे इरानः इस्रयेलश्च। 

इरानस्य प्रत्याक्रमणे इस्रयेले त्रीणि मरणानि; महान् नाशः।

 इरानस्य द्वौ सेनाधिकारिणौ च निहतौ इति इस्रयेलः।

इरानस्य प्रत्याक्रमणे विशीर्णानि भवनानि वाहनानि च। दृश्यं इस्रयेलस्थे रमद् गाने। 

टेह्रान् /टेल् अवीव्> इरान-इस्रयेलयोः अनुस्यूताक्रमणप्रत्याक्रमणेषु पश्चिमेष्याभूविभागः प्रक्षुब्धः अस्ति। इस्रयेलेन शुक्रवासरे कृतस्याक्रमणस्य प्रतीकारेण इरानेन विधत्ते प्रत्याक्रमणे त्रयः जनाः मृताः। षष्ट्यधिके जनाः व्रणिताः। ड्रोण्, बालिस्टिक् आग्नेयास्त्राणि इत्यादीनि उपयुज्य आसीदाक्रमणम्। बहूनि भवनानि यानानि च विशीर्णानि। 

  प्रत्युत, इस्रयेनेन अनुवर्तिते आक्रमणे इरानस्य द्वौ जनरल् पदीयौ  सेनाधिकारिणौ अपि हताविति इरानेन स्पष्टीकृतम्। इरानस्य मुख्यानि आणवसम्पुष्टीकरणकेन्द्राणि अपि आक्रमितानि। २४ होरासु इराने १५० लक्ष्यस्थानानि आक्रमितानीति इस्रयेलेन निगदितम्।

 विश्वनिकषक्रिकट् - दक्षिणाफ्रिकाराष्ट्राय किरीटम्। 

किरीट प्राप्तवतः दक्षिणाफ्रिकादलस्य नायक टेम्बा बवूमा पुत्रेण सह विजयाह्लादे। 

लण्टनं> दक्षिणाफ्रिकाराष्ट्रं प्रथमतया विश्वक्रिकट्निकषस्पर्धापरम्परायाम् अन्तिमविजयं प्राप। प्रतिद्वन्दिनम् आस्ट्रेलिया दलं पञ्च क्रीडकैः पराजित्य आसीत् दक्षिणाफ्रिकायाः किरीटधारणम्। 

  तेम्बा बवुमा इत्यस्य नायकत्वे दक्षिणाफ्रिकादलं अन्तिमस्पर्धायाः प्रथमचरणे ७४ धावनाङ्कानां पृष्ठतः आसीत्। ततः द्वितीयचरणे ताडनप्रारम्भकस्य [Opener]एय्डन् मार्क्रमस्य १३६ धावनाङ्कैः, नायकस्य ६६ धावनाङ्कैः च विजयं प्रत्यग्रहीत्। वर्तमानीनविजेता भवति आस्ट्रेलिया । प्राप्ताङ्काः - आस्ट्रेलिया -२१२,२०७। दक्षिणाफ्रिका - १३८, २८२/५।

 'नीट्' परिणामः - प्रथमस्थानं राजस्थानीयछात्राय।

नवदिल्ली> वैद्यकीयप्रवेशाय आयोजितायाः नीट् इति (National Eligibility come Entrance Test) परीक्षायाः परिणामः प्रसिद्धीकृतः। प्रथमश्रेणीचतुष्टयं पुरुषछात्रैः प्राप्तम्। 

  राजस्थानीयः महेश् कुमारः प्रथमस्थानं प्राप्तवान्। तस्य शतमानीयाङ्कः [Percentail score] 99. 9999547 भवति। द्वितीयस्थाने मध्यप्रदेशीयः उत्कर्ष अवाध्यः वर्तते। महाराष्ट्रीयः कृष्णाङ्ग जोषी तृतीयश्रेणीं दिल्लीयः मृणाल किशोर झा चतुर्थश्रेणीं च प्राप्तवन्तौ। 

  २२,०९,३१८ छात्राः नीट् परीक्षां लिखितवन्तः। तेषु १२,३६,५३१ छात्राः योग्यतां प्रापुः। पञ्चलक्षाधिके पुरुषछात्राः सप्तलक्षाधिकाः महिलाछात्राः षट् तृतीयलिंगीयाश्च अन्तर्भवन्ति।

Saturday, June 14, 2025

 दुरन्तस्थानं आतुरालयं च सम्प्राप्य आहतान् समाश्वासयन् प्रधानमन्त्री। 

मोदिवर्यः विश्वासकुमारं छात्रावासस्थानं च सम्पश्यति। 

अहम्मदाबादः> विमानपतनेन भग्नं बि जी वैद्यकीयकलालयस्य छात्रावासम्, आहतानां  प्रवेशनं कारितम् असर्वास्थम् जनकीयातुरालयं [Civil Hospital] च प्रधानमन्त्री नरेन्द्रमोदी ह्यः सम्प्राप्तवान्। दुर्घटनास्थानं सन्दृष्टवान् प्रधानमन्त्री जनकीयातुरालयं प्राप्य दुर्घटनायाः अद्भुतरीत्या रक्षां प्राप्तवन्तं विश्वासकुमार रमेशं प्रथमं संदृष्टवान्। दुर्घटनावृत्तान्तमधिकृत्य तस्मात् अवगतवान् मोदिवर्यः  परिचर्यायां वर्तमानान् २५ आहतानपि संदृष्टवान्। 

  तदनन्तरं व्योमयानमन्त्रालयाधिकृतैः आरक्षणाधिकारिभिः च सह चर्चां कृतवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः, केन्द्रव्योमयानमन्त्री राममोहन नायिडुश्च प्रधानमन्त्रिणा सह आस्ताम्।

 'वान्हा' पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः। 

कोष़िक्कोट्> पञ्चदिनैः केरलतीरे समुद्रे अग्निकाण्डेन प्रवहन्त्यां  वान् हाय् ५०३ इति पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः कारितः। अग्निं पूर्णतया निर्व्यापयितुं द्वादशसहस्रं किलोमितं रासचूर्णमपि विकरीतुं निश्चयः कृतः। 

  एतदाभ्यन्तरे शक्तप्रवाहेण चलन्तीं महानौकां नियन्त्रयितुं बद्धः लोहरज्जुः भग्ना। तथापि अतिसाहसिकतया पुनरपि रज्ज्वा बद्ध्वा तीरसंरक्षणसेनया महानौका नियन्त्राधीना जाता।

 युद्धभीत्यां पश्चिमेष्या। 

इस्रयेलेन इरानः आक्रमितः।

इराने इस्रयेलस्य आक्रमणम्। 

इरानस्य सेनाधिपाः आणवशास्त्रज्ञाश्च हताः। 

टेल् अवीव्> पश्चिमेष्यां युद्धाशङ्कायाः  कण्टकाग्रे स्थापयित्वा इस्रयेलः इरानम् आक्रमत्।  इरानस्य आणवाभियोजनायाः मस्तिष्कमिति कथ्यमानः तथा च "इरान् रवलूषणरि गार्ड् कोर्" इत्यस्य अधिपः जनरल् हुसैन् सलामी, संयुक्तसेनाधिपः मेजर् जनरल् मुहम्मद बखारि, पूर्वतनः सुरक्षोपदेष्टा अलि षंखानि, अन्ये षट् आणवशास्त्रज्ञाश्च आक्रमणे निहता इति इस्रयेलेन निगदितम्। 

   शुक्रवासरस्य प्रत्युषसि प्रादेशिकसमये सार्धत्रिवादने इरानस्य विभिन्नानि आणव-सैनिककेन्द्राणि लक्ष्यीकृत्य युगपत् द्विशताधिकं मनुष्यरहितयुद्धविमानानि उपयुज्य बोम्बाक्रमणं कृतमिति इस्रयेलस्य सेनावक्ता एफि डेफ्रिनः निगदितवान्। इस्रयेलस्य आक्रमणानन्तरं इरानः अपि शताधिकानि ड्रोण् यन्त्राण्युपयुज्य प्रत्याक्रमणमकरोत्। किन्तु तत्सर्वं स्वकीयव्योमप्रतिरोधसंविधानेन भग्नमिति इस्रयेलेन अभिमानितम्। 

  विंशति मासेभ्यः पूर्वं इस्रयेलः हमासमभिव्याप्य इराननुकूलितसायुधसंघटनानि च मिथः आरब्धं युद्धम् इदानीं द्वयोः राष्ट्रयोर्मध्ये आरब्धं युद्धमिति परिणतम्।

 अहम्मदाबाद विमानदुरन्ते विश्वनेतारः  अनुशोचन्ति स्म। 

> भारते गुजरातराज्ये अहम्मदाबादे दुरापन्ने विमानदुरन्ते विश्वनेतॄणाम् आदराञ्जलयः। हृदयभेदिका दुर्घटना इति ब्रिटनस्य प्रधानमन्त्री केय्र् स्टामर् अवोचत्। स्तोभजनकमस्ति दुर्घटनाश्रवणमिति ब्रिट्टनस्य राजा चाल्स् तृतीयः उक्तवान्। 

  रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः, आस्ट्रेलियायाः प्रधानमन्त्री आन्टणी अल्बनीसः इत्यादयः मृतानां परिवाराणां दौर्भाग्ये स्वकीयदुःखं प्रकाशितवन्तः। 

  बङ्गलादेशः, मलेष्या, मालिद्वीपः इत्यादीनां राष्ट्राणां शासनकर्तारः, सर्वेषां गल्फराष्ट्राणां नेतारः च भारतस्य दुःखे भागं गृहीतवन्तः।

Friday, June 13, 2025

 अहम्मदाबाद विमानदुर्घटना 

मरणानि २९४ अभवन्। २४२ यात्रिकेषु २४१ जनाः अपि मृताः। एकः अद्भुतेन रक्षां प्राप्तः। 

मृतेषु इतरे तद्देशवासिनः। 

भग्नविमानस्य अंशः। 

अहम्मदाबादः> ह्यः अपराह्ने अहम्मदाबादस्थस्य सर्दार् वलभायि पटेल् अन्ताराष्ट्रविमाननिलयस्य आकाशे दुरापन्ने अतिदारुणे दैवनिर्घाते मृतानां संख्या २९४ इति वर्धिता। १२ विमानसेवकान् अभिव्याप्य २४२ यात्रिकेषु एकं विहाय सर्वे मृत्युमुपगताः। भारतीयवंशजः ब्रिटननागरिकः विश्वास् कुमार रमेशः अत्यद्भुतदैवेन राक्षां प्राप। आपत्कालीनद्वारसमीपम् उपविशन् सः विमाने विस्फोटिते आपत्कालीनद्वारेण बहिः पतितः आसीत्। 

   विमानस्य  उड्डयनवेलायां विमानं यदा भूतलात् ६२५ पादमितं उच्चस्थितं नियन्त्रणं विनश्य समीपस्थस्य बी जि मेडिकल् कोलिज् इति आतुरालयस्य भोजनशालां प्रपतितम्। तदनन्तरं वैद्यकावासस्य उपरि पतितम्। तत्रत्याः वैद्यकच्छात्राः इतरे समीपवर्तिन एव मृताः ५३ जनाः। षष्टि जनाः परिचर्यायां वर्तन्ते। 

 लण्टनं प्रति गम्यमानम्  एयर् इन्डिया संस्थायाः बोयिंग् 'ड्रीम् लैनर्' ७८७ - ८ इति विमानमस्ति दुर्घटितम्। उड्डयनसमये एव विमानचालकेन आपत्सन्देशः प्रेषितः। दुर्घटनाहेतुः क इति न प्रत्यभिज्ञातः। एन् ऐ ए संस्थासहिताः विविधाः अन्वेषणसंस्थाः दुर्घटनास्थानं प्राप्य मार्गणमारब्धवत्यः। गृहमन्त्री अमित शाहः अहम्मदाबादं प्राप्य आवश्यकान् निर्देशान् दत्तवान्।

 अहम्मदाबाद विमानदुरन्तः 

आराष्ट्रं जाग्रत्तानिर्देशः।

नवदिल्ली> अहम्मदाबादे यात्राविमानं प्रभञ्ज्य २४८ जनाः मृत्युमुपगताः इत्यस्य भूमिकायां भारतमशेषं विमाननिलयेषु सुरक्षापरिशोधनानि कर्कशं कर्तुं व्योमयानमन्त्रालयस्य सुरक्षाविभागेन निर्दिष्टम्। यात्रिकाः तेषां भाण्डानि च परिशोधनाधीनानि भविष्यन्ति। विमानस्य तन्त्रांशान् च कर्कशेन परिशोधयिष्यन्ति।

 द्वौ मावोवादिनौ निहतौ। 

सुक्मा> छत्तीसगढे सुक्मा जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे द्वौ मावोवादिनौ निहतौ। बुधवासरे कुक्कनार् आरक्षकाधिकारप्रदेशे आसीत् प्रतिद्वन्द्वः। ततः आयुधानि निगृहीतानि। गतदिने सुक्मास्थाने खन्यस्फोटकेन (mine) सूप्रण्ट् पदीय‌ः आरक्षकाधिकारी हत आसीत्।

Thursday, June 12, 2025

 अहम्मदाबादे आकाशदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री दिवंगतः। 


अहम्मदाबादः> अहम्मदाबादे अद्य अपराह्ने दुरापन्ने विमानदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री विजय रूपाणिवर्यः दिवंगतः। लण्टनमधिवसन्तीं स्वपुत्रीं सन्द्रष्टुं लण्टनं गच्छन्नासीत्।  भा ज पा दलनेता रूपाणिवर्यः २०१६ तः २०२१ पर्यन्तं गुजरातस्य मुख्यमन्त्री आसीत्।  

 अहम्मदाबादात् लण्टनं प्रति गच्छत् एयर् इन्डिया संस्थायाः बोयिंग् ७८७ विमानं उड्डयनमारभ्य निमेषद्वयाभ्यन्तरे महास्फोटनेन अग्निगोलाकारं भूत्वा भग्नमापतितम्। आहत्य २४२ यात्रिकेषु एकमपहाय सर्वे विनष्टप्राणाः इति सूच्यते।

 अहम्मदाबादे विमानुर्घटना - १३३ जनाः मृत्युमुपगताः।

विमानदुर्घटनायाः विदूरदृश्यम्। 

भूतपूर्वः गुजरातमुख्यमन्त्री तीव्रेण आहतः। 

उड्डीय पञ्च निमेषाभ्यन्तरे ६२५ पादमितात् उच्चतः छात्रावासभवनस्योपरि पतितम्। 

आहत्य २४२ जनाः - २३० यात्रिकाः, १२ सेवाजनाः। 

अहम्मदाबादः> गुजराते अहमदाबादस्थे  विमाननिलयात् उड्डीयमानं एयर् इन्डिया संस्थायाः बोयिंङ् ७८७ विमानं पञ्च मिनिट् समयानन्तरं महच्छब्देन अग्निकाण्डेन च सह  समीपस्थस्य छात्रावासस्य उपरि पतत् आसीत्। इतःपर्यन्तं १३३ यात्रिकाः मृताः इति सूच्यते। 

आहत्य २४२ जनाः   विमाने आसन्। २३०  यात्रिकाः १२ सेवकाश्च। १६९ भारतीयाः, ५३ ब्रिटीनीयाः, ७ पोर्गीसनागरिकाः, एकः कनेडियः च आसन्। 

  विमाने यात्रिकः गुजरातस्य भूतपूर्वः मुख्यमन्त्री विजय रूपाणी कठिनतया आहतः इति सूच्यते।

 विश्वचषकपादकन्दुकक्रीडा

ब्रसीलम् अभिव्याप्य त्रयोदश राष्ट्राणि योग्यतां प्राप्तानि। 

सर्वेषु विश्वचषकेषु योग्यतामुपस्थापितवत् एकमेव दलमिति ख्यातिः ब्रसीलाय। 

सावो पोलो > कार्लोस् आन्जलोटी नामकस्य परिशीलकस्य तन्त्रनैपुण्यात् ब्रसीलराष्ट्रस्य पादकन्दुकदलं आगामिवर्षे सम्पत्स्यमानायां  विश्वचषकपादकन्दुकक्रीडायां योग्यतां सम्पादयामास।। पराग्वे दलं पराजित्य एव ब्रसीलस्य योग्यतालब्धिः। अनेन सर्वास्वपि विश्वचषकस्पर्धासु क्षमतां प्राप्तवत् एकमेव दलमिति ख्यातिरपि ब्रसीलेन  अवस्थापिता। 

   इतःपर्यन्तं त्रयोदश दलानि विश्वचषकाय क्षमतां प्राप्तानि। अमेरिका, कानडा, मेक्सिको इत्येतानि आतिथेयराष्ट्राणि विना आस्ट्रेलिया, इरानं, जापानं, जोर्दानः, दक्षिणकोरिया, उस्बकिस्थानं, अर्जन्टीना, एक्वडोर्, न्यूसिलान्ट्, ब्रसीलः इत्येतानि दश राष्ट्राणि च क्षमतामुपालभन्त। २०२६ विश्वचषकपादकन्दुकक्रीडायाम् आहत्य अष्टचत्वारिंशत् राष्ट्राणि भागं करिष्यन्ति।

 प्रज्वलिता पण्यमहानौका नियन्त्रणाधीना। 

अग्निप्रशमनं विजयं प्राप्नोति। महानौकां सुदूरमपनेतुम् आरब्धः। 

लोहरज्जुना बन्धिता पण्यमहानौका। 

कोष़िक्कोट्> दिनत्रयात्पूर्वं केरलतीरसमीपम् अन्ताराष्टियमहानौकामार्गे अग्निकाण्डाधीना 'एम् वि वान्हाय् ५०३' नामिका पण्यमहानौका तटसंरक्षणसेनायाः नियन्त्रणे अभवत्। महानौकायाः पुरतःपार्श्वे उदग्रयानात् अतिसाहसिकतया अवतीर्य शक्तियुक्तं लोहरज्जुमुपयुज्य बद्ध्वा तीरात् सुदूरमपनेतुम् उद्यमः तटसंरक्षणसेनया आरब्धः। तदर्थं महानौकां तटसंरक्षणसेनायाः 'समुद्रप्रहरी'ति महानौकया सह बबन्ध। रक्षादौत्याय मुम्बयीतः जलयानद्वयं च समागतम्। 

    तिसृणां महानौकानां नैकानां डोणियर् विमानानां च साह्येन अदृष्टेभ्यः चतुर्भ्यः वृत्तिकरेभ्यः मार्गणमनुवर्तते। अदृष्टाः चत्वारः महानौकायामेव लग्नाः इति सन्देहः वर्तते।