OUR YouTube Channel 1. SampratiVartah |
marquee
Sunday, December 27, 2015
नवदिल्ली - भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अप्रतीक्षितेन पाकिस्तानसन्दर्शनेन राष्ट्रयोर्मध्ये शुभप्रतीक्षा सञ्जाता। विदेशाविभागकर्यकार्यदर्शिनो: मेलन पर्यालोचनं जनुवरि १५ दिनाङ्के इस्लामबादनगरे स्यात्। ततः समग्रचर्चायाः दिनाङ्कादिकं विज्ञापयिष्यति। मोदिनः रष्यासन्दर्शनं समाप्य प्रत्यागमनवेलायामेव पाक्-सन्दर्शनं जवेन निश्चितम्। लाहोर् विमाननिलये पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः मोदिनं स्वीकृतवान्। ततः एकघण्डां यावत् चर्चा कृता। रात्रावेव मोदिवर्यः दिल्लीं प्राप्तवान्।
तोटुपुषा (केरलम्)- संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः
संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां
कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं
सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते एव अयं
पुरस्कारः दीयते । अस्य वर्षस्य शर्माजी पुरस्काराय चितःटी. के सन्तोष्कुमार: केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी तथा कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालयस्य संस्कृताध्यापकश्च भवति।विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्ट पण्डितरत्नं डो.जी. गङ्गाधरन् नायर् महोदयः श्री.टी. के. सन्तोष्कुमाराय पुरस्कारं ददाति। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । पुरस्कार: संस्कृत अद्यापक फ़ेटरेशन् संस्थाया: लब्धः अङ्गीकारमिति मन्ये इति संतोष् वर्यः प्रत्यवदत् ।
संस्कृतस्य कृते निस्वार्थ सेवनम् कृतवानयं इति गङ्गाधर महाभागेन उक्तम् ।
Saturday, December 26, 2015
सप्तम देशीय श्रीशङ्करनृत्तसंगीतोत्सवस्य अद्य शुभारम्भः ।
कालटी - केरलस्य अद्वतभूमिः कालटी तावत् अद्य आरभ्य पञ्च दिनं यावत् लोकप्रशस्तानां नृत्तसंगीतकलाकाराणां वैभवेन सम्पन्ना भविष्यति।
कालटी श्रीशङ्करनृत्तविद्यालयस्य नेतृत्वे आयोज्यमानः सप्तमः नृत्तोत्सवः डिसं.२६ - ३० पर्यन्तं श्रीशङ्करनाट्यमण्डपस्य समीपे सविशेषरीत्या कृतायां २२५० चतुरश्रपादमितायां नृत्तवेदिकायां प्रचलिष्यति।
२६तमदिनाङ्के सायं ५.४०वादने प्रसिद्धः कथक् नर्तकः अषिं बन्धु भट्टाचार्यः,(कोल्कत्ता) कथक् नृत्तमवतारयति। २७ - सायं श्री रञ्जित् श्रीमति विज्ना (चेन्नै)इत्येताभ्याम् अवतार्यमाणं भरतनाट्यम् , २८ - सरिता मिश्रायाः (बङ्गलूरु)ओडीसी ,२९ -डो. द्रौपदी प्रवीण् ,डो . पद्मिनिकृष्णन् (केरलं) इत्येतयोः भरतनाट्यं-कुच्चिप्पुटी फ्यूषन्नृत्तं ,जयप्रभा मेनोन् (नवदिल्ली) महाभागाया: मोहिनियाट्टं , कलारत्नं दीपिका रड्डि (हैदराबाद्) वर्यायाः कुच्चिप्पुटी च भविष्यन्ति।समापनदिने - ३० -सायं कलाश्री सुनन्दा नायर् (मुंबई) महाभागया अवतार्यमाणं मोहिनियाट्टं च भविष्यति।
Prashikshana Shibiram
*
|
कुमारमङ्गले प्रवर्तमाने शिक्षकप्रशिक्षणशिबिरे ह्यः परीक्षा आसीत् । परीक्षा कीदृशी भविष्यति इति भिया आगतानां शिक्षार्थिनां पुरतः विविधाभिः भाषाक्रीडाभि: आगत्य शिक्षकाः तान् आश्चर्यचकितान् कृतवन्तः । | |
| प्रशिक्षणे वररुचिगणः सरण्यां सरस्वतीगणः च प्रथमं स्थानं प्राप्तवन्तौ। प्रत्येकगणेन निर्मितानां भित्तिपत्रिकाणां प्रकाशनमपि जातम्। राष्ट्रियस्वयंसेवकसङ्घस्य सङ्घचालक : नारायनन् महोदयः आशंसाभाषणं कृतवान्। | ||
जिद्दा- सौदी- यमन् राष्ट्रयोः सीमायां जिसान् प्रदेशे सौदीसर्वकारातुरालये संजाते अग्निदुरन्ते २५ जनाः मृताः। १०७ जनाः दग्धाश्च। अरब्वंशीयाः रुग्णाः तेषां सहायिनश्च दुरन्ते बलिभूताः।Friday, December 25, 2015
Akshaya Thrithiya Kanakadhara
The yajnam is held in remembrance of the legend that there was a rain of golden gooseberries when Sri Sankaracharya recited slokas after seeing the plight of a Brahmin lady living in abject poverty. The lady was upset as she could only provide gooseberries as alms to Sri Sankaracharya when he visited her house. Seeing her plight, Sri Sankaracharya was moved and he recited slokas addressing Lakshmi Devi. It is believed that golden gooseberries fell when Sri Sankaracharya completed the 19th sloka. The chief priest of the ceremony will be the senior-most member of Swarnathu Mana. Sri Sankaracharya is believed to have recited the 19 slokas while visiting this house.
कोच्ची - भारते दक्षिणकैलासः मङ्गल्यवरदायिनीमन्दिरम् इति च प्रख्याते तिरुवैराणिक्कुलं महादेवमन्दिरे अस्य संवत्सरस्य श्रीपार्वतीदेव्याः गर्भगृहस्य द्वारोद्घाटनं देवीदर्शनं च अद्य आरभते।श्रीपरमेश्वरः पार्वतीदेवी च एकस्मिन्नेव गर्भगृहे अनभिमुखं प्रतिष्ठितौ तथापि देवीदर्शनं प्रतिसंवत्सरं धनुमासस्य आतिरनक्षत्रादारभ्य द्वादशदिनपर्यन्तमेव साध्यमिति अस्य मन्दिरस्य सविशेषता। मङ्गल्यसौभाग्याय इष्टसन्तानलब्धये दीर्घमंगल्याय च देवीदर्शनं विशिष्टमिति भक्तजनाः मन्यन्ते।
केरले एरणाकुलं जिल्लायाम् आलुवा अंशे तिरुवैराणिक्कुलं प्रदेशे पूर्णानद्याः (पेरियार्) तीरे इदं मन्दिरं वर्तते। कोच्ची अन्तःराष्ट्रविमाननिलयः १० कि.मी दूरे अस्ति। आलुवा, अङ्कमाली , पेरुम्पावूर् के एस् आर् टि सि बस्याननिस्थानेभ्यः सविशेषलोकयानसेवनानि च अस्मिन् काले लभ्यन्ते।
Thursday, December 24, 2015
गासियाबाद् - तीव्रवादान् विरुध्य तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्।
हिन्दुमहासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः। | ब्रूणे - अस्य राष्ट्रस्य नेता सुल्त्तान् हसनल् बोलक्कय्या एव क्रिस्तुमस् आघोषाय निरोधानां कृतवान् जानुवरी मासस्य 16 दिने दक्षिणपूर्व एष्यायां बार्णियो द्वीपे विद्यमानं राष्ट्रमेतत्। |
-
|
गतवर्षेषु अपि एतादृश निरोधः आसीत्। 4,20,000 जनाः अत्र वसन्ति्। तस्मिन् प्रतिशतं द्वात्रिंशत् जनाः विविधधर्मावलम्बिनः सन्ति । |
नवदिल्ली-भारत-पाक् देशयोः विदेशविभागसचिवानां उभयाभिमुखं जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिण्या: सुषमा स्वराजस्य पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः।
नवदिल्ली - गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।
नरेन्द्रमोदी मोस्को प्राप्तः।
Wednesday, December 23, 2015
कोल्क्कत्त- कोल्क्कात्तायां राज्यान्तरीयव्योमयान निलये बस् यानं विमानेन सह घट्टितम्। जेट्ट् एयर् वेय्सस्य भवति बस् यानम्। एयर् इन्त्यायाः स्थगिते विमाने आसीत् घट्टनम्। तस्मिन् समये विमाने यात्रिकाः नासीत्। विमान गृहे सुरक्षायाः अभावः अस्ति इति अनया दुर्घटनया सूच्यते। अस्य वर्षस्य शर्माजी पुरस्काराय टी. के सन्तोष्कुमार: चितः इति पुरस्कारनिर्णयसमित्या सूचितम् ।
Tuesday, December 22, 2015
नव दिल्ली- केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।
जनानां कृते निर्वाचितै: नेतृभिः किमपि करणीयम्
![]() |
| उद्घाटनं - पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती |
तोडुपुष़ा कुमारमङ्गलम् एम् .के .एन् एम्.एच् .एस् .एस् . मध्ये विश्वसंस्कृतप्रतिष्टानद्वारा आयोजित शिक्षक - प्रशिक्षण- शिबिरस्य उद्घाटनं कृत्वा भाषमाण आसीत् सः।
तपस्या अध्यक्षः प्रोफ़ पि जि हरिदासः अध्यक्ष आसीत्।
संस्कृतभारत्याः राज्याध्यक्षः एम् पि उण्णिकृष्णः भाषणं कृतवान्।
पि नारायणः मुख्यातिथिः आसीत् । केरलक्षेत्रसंरक्षणसमिति अध्यक्षः स्वामी अय्यप्पदासः मुख्यभाषणं कृतवान्। कुमारमङ्गलम् पञ्चायत् अध्यक्षः निसार् पष़ेरी , एम् .के .एन् एम्.एच् .एस् .एस् . प्राचार्यः के . अनिलः, विश्वसंस्कृतप्रतिष्ठानस्य कार्यदर्शी वि श्रीकुमारः , पञ्चायत् अङ्ग: उषाराजशेखरः धनेष्कुमारः , एम् . जी .राजशेखरः इत्येते भाषणं कृतवन्तः । शिबिरं २७ दिनाङ्के समाप्तिमेष्यति।
Monday, December 21, 2015
केरलेषु विपण्यां विक्रीयमानानि शाकादीनि विशलिप्ताः तेन कारणेन जनाः अर्बुदादिभिः रोगैः बाधिताः च। निरोधिताः कीटनाशिन्यः अधुनापि तमिल् नाडु राज्यस्य विपणिषु सुलभाः। केरलेषु उपयुज्यमानेषु शाकासु प्रतिशतनवतिपर्यन्तं 90% अपि तमिल् नाडु देशात् आगच्छति ।
बेय्जिङ् - दक्षिणचीनायां षेन् षान् नगरे गतदिने संवृत्ते भूपाते २२जनाः अदृश्याः अभवन्। नगरस्थे व्यावसायिकोद्यान एव दुरन्तः सञ्जातः। तत्र २२ भवनानि पूर्णतया मृदन्तर्भूतानि। अदृष्टेषु १७ पुरुषाः ५ महिलाश्च अन्तर्भवन्ति।
समीपस्थात् वप्रात् अशास्त्रीयं मृद्घननमेव दुरन्तकारणमिति उच्यते।
![]() |
| संस्कृतं किमर्थम् इति विषये प. नन्दकुमारः |
Sunday, December 20, 2015
नवदिल्ली - दिल्ल्यां संघटितबलात्कारविषये दण्डनविधेयः अप्राप्तव्ववहारः अपराधी कौमारसंरक्षणावासात् मोचितः सन् गूढस्थानं नीतः। सुरक्षाकारणेन स्थानं न व्यक्तीकृतम्। किन्तु सः न मोचनीयः इत्याक्रोश्य प्रतिषेधं कृतवन्तौ युवत्याः पितरौ आरक्षकैः गृहीतौ।
कोच्ची - भारतस्य छात्राणां कायिकमेलां चालयितुं केरलं सन्नद्धमिति केन्द्रसर्वकाराय न्यवेदयत्। जनवरिमासस्य अन्तिमवारे कोष़िक्कोट् नगरं केन्द्रीकृत्य चालयितुं राज्यसर्वकारस्य निर्णय अभवत्।मेलाचालनाय केन्द्रसर्वकारात् आर्थिकसाहाय्यमपि अपेक्षितम्।सिद्धताम् अवलोकयितुं मंगलवासरे मन्त्रिणां नेतृत्वे कोष़िक्कोट् मध्ये प्रथमोपवेशनं भविष्यति।
मेट्रो रेल् योजनायाः पट्टिका यानं
जनवरी 2 दिने कोच्चीं प्राप्स्यते
श्रीसिट्टि- केन्द्रमन्त्रिणा वेङ्कय्य नायिटु महाभागेन केरलमन्त्रिणे आर्याटन् मुहम्मदाय श्री सिट्टि मध्ये यानपेटिकां दास्यते। तिस्रः पट्टिका पेटिकाः प्रथमतया दास्यते। तत् उपयुज्य फ़िब्रवरि मासे परीक्षण धावनं करिष्यते। श्री सिट्टिमध्ये विद्यमानाया: अल्स्तों संस्थायाः कर्मशालायां निर्माणं प्रचलन्नस्ति।
Saturday, December 19, 2015
सर्वकारस्य अनुमतिः।
नवदिल्ली- भारतस्य व्योमबलमण्डलम् अधिकं सुरक्षितं कर्तुं रष्यादेशतः व्योममिसैल् प्रतिरोधतन्त्रं क्रेतुं सर्वकारेण अनुमतिः दत्ता। एतदधिकृत्य डिफन्स् फिक्सेषन् समितेः निर्देश एव सर्वकारेण अङ्गीकृतः । ४०० कि .मि. दूरस्थितान्यपि शत्रु विमानानि मिसैल् शस्त्राणि च नाशयितुं सशक्तानि पञ्च अत्याधुनिक एस् ४०० ड्रयम्फ् तन्त्राणि एव स्वीक्रियन्ते । प्रधानमन्त्रिण: नरेन्द्रमोदिनः रष्या सन्दर्शनवेलायाम् एतदधिकृत्य निश्चयः भविष्यति ।
बालकापराधी मोचयते।
नवदिल्ली - दिल्ली संघटितबलात्कारविषये दण्डनकालं पूर्तीकरिष्यमाणः कौमारवयस्कः अपराधी श्वः मोचयते। तस्य मोचनं निरोद्धुम् इदानीन्तननीतिन्यायव्यवस्थायां नियमः नास्तीति मुख्यन्यायाधिपः जि रोहिणी न्याया. जयन्तनाथः इत्येताभ्यां विहितम्।
नवदेहली कुम्मनं राजशेखरः भा.ज.पा दलस्य केरलराज्याध्यक्षः जातः। बुधवासरे नवदेहल्यां जाते भा.ज.पा मेलने एव निश्चयोऽयं जातः। अधुना हिन्दु ऐक्यवेदी राज्यकार्यदर्शी भवति अयम् । अधुनातनाध्यक्षः वि मुरलीधरः भा.ज.पा निर्वाचनसमितेः संयोजकः भविष्यति ।
समुद्रात् बलेन अपनीताः भारतीयाः सुरक्षिताः इति सुषमा स्वराज्
गूगिल् सि ओ सुन्दर् पिच्चाय् प्रधनमन्त्रिणम् अमिलत्
Friday, December 18, 2015
अध्यापकसम्पुटः - १:४५ अनुपातः उच्चन्यायालयेन निरुद्धः।
२०१५-१६ अध्ययनवर्षादारभ्य केरलसर्वकारेण आरब्धा अध्यापकसम्पुटव्यवस्था एव न्यायाधीशेन के विनोद् चन्द्रेण निरस्ता।
Thursday, December 17, 2015
श्रीहरिक्कोतट्ट : उपग्रहचतुष्टयेन सह पी एस् एल् वि सी 29 भ्रमण पथं प्राप्तवान् 550 किलो मीट्टर् दूरे सञ्चारपथे उपग्रहान् नीत्वा भूस्थिरपथेषु विक्षिप्तः
आतङ्कवादस्य आमूलनिर्माजनं सख्यसेनायाः लक्ष्यमिति सौदीयुवराजः रक्षामन्त्री च मुहम्मद् बिन् सल्मान् अवदत्।
दिल्लीमुख्यमन्त्रिणः कार्यालयसमुच्चये सि बि ऐ आपातः; राजनैतिकमण्डलं प्रक्षुब्धम्।
किन्तु मुख्यमन्त्रिणः मुख्यकार्यदर्शिनः राजेन्द्रकुमारस्य कार्यालये तं लक्षीकृतं भ्रष्टाचारान्वेषणं पुरस्कृत्य एव अापात इति सि बि ऐ वृत्तैरुक्तम्। अस्मिन् विषये लोकसभा प्रक्षुब्धा जाता। राज्यसभायामपि कार्यक्रमाः स्तंभिताः अभवन्।
Wednesday, December 16, 2015
भारतस्य पी एस् एल् वि -सि २९
श्रीनारायणगुरुवर्यः केरलस्य आध्यामनेता
- मोडिवर्यः
शिवगिरः - आदि शङ्करस्य अद्वैत सिद्धान्तान् अनुगम्य केरलान् नीतवान् श्री नारायणगुरुः इति मोडिवर्येण उक्तः। समूहे आपदि पतिते सति अभ्युत्थानाय महात्मनः उदेति इति हिन्दुधर्मस्य विशेष विश्वासः। तद्वद् केरले अवतरितः महापुरुषः भवति गुरुदेवः इति मोदिवर्येण स्पषष्टीकृतम्। शिवगिर्याश्रमेषु भाषमाणः आसीत् सः। 5.15 वादने आश्रममागतं प्रधानमन्त्रिणं सन्यासिनः सम्यक् स्वीकृतवन्तः।
तृश्शिवपेरूर् - भारते भाजपा दलस्य नेतृत्वे नूतनसर्वकारस्य अधिकारप्राप्त्यनन्तरं व्यावसायिक-कार्षिकादिषु मण्डलेषु राष्ट्रस्य महती अभिवृद्धिः सञ्जाता इति प्रधानमन्त्री नरेन्द्रमोदी प्रास्तूयत। केरले तृश्शूर् जनपदे भाजपादलेन आयोजिते सम्मेलने प्रभाषणं कुर्वन्नासीत् मोदिवर्यः।
Monday, December 14, 2015
अद्य आरभ्य दिनद्वयं प्रधानमन्त्री केरले।
कोच्ची -दिनद्वयात्मकं केरलसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कोच्चीं प्राप्नोति। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं सन्दर्शनमिदम्।
सोमवासरे सायं ४.१० वादने कोच्ची नाविकविमाननिलयं प्रापस्यमानाय मोदीवर्याय केरलसर्वकारः स्वीकरणं प्रदास्यति। ततः तृश्शिवपेरूर् नगरे भा ज पा दलेन आयोज्यमाने सम्मेलने प्रभाषणं करिष्यति। पुनः कोच्चीं प्रतिनिवृत्य नगरस्थे ताज्मलबार् भवनसमुच्चये वासः।
अपरेद्युः प्रभाते ऐ एन् एस् विक्रमादित्य इति विमानवाहिनिमहानौकायां त्रयाणां सेनाविभागानां सम्मेलने भागभागित्वं कृत्वा कोल्लं नगरे भूतपूर्वस्य मुख्यमन्त्रिणः आर् शङ्कर् महोदयस्य प्रतिमायाः अनाच्छादनं करिष्यति। ततः श्रीनारायणगुरोः समाधिस्थानभूतं शिवगिरिं संद्रष्टुं वर्कलां गमिष्यति। तदनन्तरम् अनन्तपुरस्थात् व्योमनिलयात् दिल्लीं प्रतिगमिष्यति।













