OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, June 7, 2016


प्रधानमन्त्री स्विट्सर्लान्ट् देशे। 

भारतप्रधानमन्त्री नरेन्द्रमोदी खत्तर् सन्दर्शनं पूर्तीकृत्य स्विट्सर्लान्ट् देशं प्राप्तवान्। तत्र हृद्यं स्वीकरणं लब्धम्।
  अलीकधनं भवति राष्ट्रद्वयेनापि अभिमुखीक्रियमाणः विषयः इति प्रधानमन्त्रिणा उक्तम्। द्वयोरपि राष्ट्रयोः सहकारित्वं दृढीकर्तुं क्रियाविधिः स्वीकरिष्यते।
   मोदिवर्यः अद्य अमेरिक्का राष्ट्रपतिना ओबामावर्येण सह मेलिष्यति।


यूरोचषकः दशमदिनाङ्के आरप्स्यते। 
पारीस् - यूरोप्यन् पादकन्दुकस्पर्धाभ्यः शुक्रवासरे शुभारम्भः। फ्रान्स् मध्ये प्रचाल्यमाने यूरोचषके चतुर्विंशति राष्ट्राणि स्पर्धिष्यन्ते।


 विषमयशाकादीनां विपणनं विरुद्ध्य कर्कशक्रियाविधिः केरळस्य मुख्यमन्त्री । 
अनन्तपुरी >केरळेषु विषमयशाकादीनां विक्रयः न अङ्गीक्रियतेति मुख्यमन्त्रिणा पिणराय् विजयेन प्रस्तुतम्। एतदर्थं प्रत्यवेक्षणं कर्कशं करिष्यतीति तेनोक्तम्। 
  कार्षिकमण्डले स्वयंपर्याप्ततां प्राप्तुं पञ्चाशत् सहस्रं हेक्टर् परिमितेषु केदारेष्वपि जैवशाकाकृषिः आरप्स्यते।

 छात्राणां प्रतिवासरीयवार्तावतरणं - अस्मिन् वासरे नम्यालक्ष्मी। 

कोच्ची >विद्यालयीयछात्राणां संस्कृशैक्षिकोत्कर्षस्य अभिवृद्धये  ' सम्प्रतिवार्ता'याः आभिमुख्ये आरब्धे संस्कृतवार्तावतरणकार्यक्रमे अस्मिन् वासरे नम्यालक्ष्मी . आर् वार्ताः अवतारयति। एरणाकुलं जनपदे नायत्तोट् प्रदेशस्थे महाकवि 'जि' स्मारक सर्वकार उच्चतरविद्यालये विद्यार्थिनी भवत्येषा। 

   २०१६ जूण् प्रथमे दिने एव छात्राणां कृते सम्प्रतिवार्तायाः नूतनकार्यक्रमः आरब्धः।

Monday, June 6, 2016

 मुम्बय्यां बस् दुर्घटना - सप्तदश जनाः मृताः।

             
   -  मुंबई-पूने त्वरित देशीयमार्गे  ह्यः संवृत्तायां  मार्गदुर्घटनायां  सप्तदश जना: मृताः , बहवः  व्रणिताः च। मृतेषु त्रयोदश  पुरुषाः चतस्रः वनिताः च अन्तर्भवन्ति। द्वयोः  कार् यानयोः  मध्ये  बस् यानस्य घट्टनेनैव अपघातः संवृत्तः। आघातानन्तरं लोकयानं  समीपस्थं विंशति  मीटर् परिमितं गर्तम् अपतत्। अपघाते व्रणितान् जनान् पनवेलनगरस्थं आतुरालयं प्राविशत्।



नरेन्द्रमोदी पुनरपि अमेरिकायाम्

 वाषिङ्टण्> त्रिदिनसन्दर्शनाय प्रधानमन्त्री नरेन्द्रमोदी १वः अमेरिकां प्राप्स्यति। एतत् मोदिनः चतुर्थम् अमेरिका सन्दर्शनं भवति । सन्दर्शनवेलायां बहुषु सुप्रधान विषयेषु अध्यक्षेण बराक् ओबामेन सह चर्चां करिष्यतीति 'वैट्हौस्'उद्योगस्थाः उक्तवन्त: । सुरक्षा, प्रतिरोधमण्डलस्य सहकरणं ,आर्थिकपुरोगतये श्रद्धेयांशाः, कालावस्थाव्यतियानं इत्यादिषु विषयेषु उभयोः राष्ट्रयोः मध्ये चर्चा भविष्यतीति सूचना । अपि च मोदिनः गतवर्षस्य अमेरिका सन्दर्शनेन द्वयोरपि राष्ट्रयोः परस्परसहकरणे महती पुरोगतिः जाता इति 'वैट्‌हौस्' विशदयति।


सेतुः (DAM)  सुरक्षा : - देशीयस्तरसमितिः आविष्क्रियते

            नवदेहली> राष्ट्रे विद्यमानानां जलसंभरणीनां सुरक्षा क्रमीकरणाय देशीयस्तरीया काचित् समितिः रूपीकर्तुं केन्द्रजलविभवमन्त्रालयस्य पर्यालोचना । एतदर्थं केन्द्रजलविभवमन्त्रालयेन जलसंभरणीसुरक्षानियमपत्रिका आसूत्रिता वर्तते।जलसंभरणी निर्माणं, नदीजलविनियोगे सहकरणम् इत्यादिषु विषयेषु विविधानां राज्यानां मध्ये संभूतानां तर्काणां परिहारः एव नियमपत्रिकायाः मुख्यं लक्ष्यम्। केन्द्रमन्त्रिसभायाः अनुमतेः परं पत्रिकामिमां अनुमतये लोकसभायां समर्पयिष्यति।

राज्यस्तरीया अध्यापक योग्यतापरीक्षा।
उच्चतरविद्यालयेषु अध्यापकनियमनाय सर्वकारैः प्रचाल्यमाना राज्यस्तरीययोग्यतापरीक्षा सेट् जुलाई31तमे भविष्यति ।
विस्तृतविवरणपत्रं पाठ्यक्रमश्च ला ब शा केन्द्राणां अन्तर्जालशृड़्खलासु उपलभ्यन्ते । बिरुदानन्तरबिरुदपरीक्षायां  न्यूनातिन्यूनं 50% अड़्काः अथवा तत्तुल्यता तथा शिक्षकबिरुदं च अनिवार्या योग्यता । दुर्लभविषयेषु बिरुदानन्तरबिरुदधारिणः शिक्षकबिरुदानिवार्यतायाः बहिष्कृताः। एल् टी टी सीं/डी एच् टीं विहाय अन्याः योग्यताः बी एड् तुल्याः इति न परिगण्यन्ते। पट्टिकजाति पट्टिकवर्ग विभागानां बिरुदानन्तरबिरुदे 5% अड़्कानां आश्वासः लभते। अनिवार्ययोग्यतासु एकैवास्ति चेदपि परीक्षा लेखनसाध्या। बिरुदानन्तरबिरुदार्जिताः शिक्षकबिरुदस्य अन्तिमवर्षपठितारः भवेयुः । अन्तिमवर्ष बि बि पठितृणां बी एड् योग्यता अवश्यं भवेत् । नियमानुसारं परीक्षार्थिनः बि बि/ बि एड्  योग्यतायाः प्रमाणपत्रं फलप्रख्यापनदिनाड़्कादेकवर्षाभ्यन्तरे न समर्पयन्ति  चेत् विजयिनत्वेन न परिगणयन्ति ।

Sunday, June 5, 2016

अफ्‌गान् राष्ट्रस्य परमोन्नतपुरस्कारः नरेन्द्रमोदीवर्याय

        
        हेरात्त्> - परमोन्नतं आमिर् अमानुल्लाखान् पुरस्कारम् नरेन्द्रमोदिने समर्प्य अफ्गान् राष्ट्रस्य आदर:Iअफ्गानिस्ताने  नूतनतया निर्मितस्य 'सल्मा डाम्' इत्यस्य उद्घाटनसमारोहे एव पुरस्कार समर्पणम् अभवत् ।भारतस्य सहयोगेनैव डाम् निर्मितं वर्तते।
अफ्गान्‌ राज्यस्य त्रिंशत् वर्षाणां स्वप्नस्य साक्षात्कारः एव जातः इति अफ्गान् राष्ट्रपतिना अष्रफ्खान् महोदयेन उक्तम्। डाम् उपयुज्य ४८ मेगावाट् विद्युदुत्पादनम् तथा ७५००० हेक्टर् भूमौ जलसेचनं च शक्यते।


मुष्टि-प्रहारक्रीडायाः   इतिहासः मुहम्मदलिः दिवङ्गतः



  लोस् आञ्चलस्> मुष्टिप्रहार -क्रीडकेतिहासः  मुहम्मदलिः   अमेरिकादेशे अरिसोणायाम्  दिवङ्गतः । चतुस्सप्ततिवयस्कः आसीत्। श्वासोच्छ्वसनप्रक्रियायां प्रतिबन्धमनुभूतः सः पूर्वदिनेषु चिकित्सायामासीत्। 'पार्किन्सण्' रोगबाधितः च  आसीत् ।'द ग्रेटेस्ट' , 'द पीप्प्ल्स् चाम्प्यन् ' इत्यादिभ्यां नामभ्यां विख्यातः सः विश्वकायिकमण्डले स्वप्रयत्नेन चिरप्रतिष्ठां सम्पादितवान् ।

क्रीडावार्ता

टेन्नीस् कायिकमण्डले   नवतारोदयः   

                                       पारीस् > स्पेयिन् देशीया गार्बैन् मुगुरुसा फ्रञ्च्ऑपण जेत्री । फ्रञ्च्ऑपण अन्तिमक्रीडायां चतुर्थस्थानीया गार्बैन् मुगुरुसा सेरीनाविल्यंसं ७-५ ,६-४ इति विन्यासे पराजितवती । तस्याः प्रथमः ग्रान्ट्स्लां पुरस्कारः एव अयम्।

Saturday, June 4, 2016

मथुरायां संधर्षः , भुशुण्डिप्रयोगः - २४ मरणानि। 

लख्नौ > उत्तरप्रदेशे मथुरायां जवाहर्बाग् उद्याने लंघकान् अपाकर्तुं सम्पद्यमाने प्रयत्ने महान् संघर्षः। गतदिने रात्रौ आरब्धे संघट्टने भुशुण्डिप्रयोगे च आरक्षकानामुन्नताधिकारी मुकुल् द्विवेदी , आरक्षकः सन्तोष् यादवः इत्येताभ्यां सहिताः २४ जनाः हताः। शताधिकाः व्रणिताः। ११६ महिलासहिताः ३२० जनाः आरक्षकैः गृहीताः।
    आसाद् वैदिक वैचारिक क्रान्ति सत्याग्रही इति संस्थायाः नेतृत्वे आसीत् उद्यानलङ्घनम्। नेताजी सुभाष् चन्द्रबोस् वर्यस्य यथार्थानुयायिनः इति स्वयम् अभिमानिनां संघः भवत्येषः। ३००० परिमितं जनाः संवत्सरद्वयं यावत् अत्र निवसन्ति।
  अलहबाद् उच्च न्यायालयस्य आदेशानुसारं एतान् इतः अपाकर्तुं प्राप्तान् आरक्षकान् ए के ४७ सहितैः आयुधैः लंघकाः आक्रमणं कृतवन्तः आसन्।

Friday, June 3, 2016

जर्मनी, फ्रान्स् देशयोः जलोपप्लवः। 
बर्लिन् >महती वृष्टिः इत्यतः जर्मनी फ्रान्स् इत्येतयोः यूरोप्यन् राष्ट्रयोः महान् जलोपप्लवः। मध्यफ्रान्स् नगरेषु अस्य शताब्दस्य बृहत्तमः जलोपप्लवः अनुभूयते। राजधानीनगरे अपि रेल् यानगतागतं वैद्युतवितरणं च स्थगितम्।
  जर्मनिराष्ट्रे ९ जनाः जलोपप्लवेन मृताः।

केरळाय अधिकं भक्ष्यधान्यम्।

नवदिल्ली > केरळं तमिळ्नाट् नागालान्ट् इत्येतेषां राज्यानाम् अतिनिष्किञ्चनत्वपरिवारेभ्यः (बि पि एल् ) अधिकं भक्ष्यधान्यं केन्द्रसर्वकारात् लप्स्यते। एतदर्थं ४१८०० टण् परिमितं भोज्यधान्यानि अधिकतया दातुं निश्चितम्।


विशेष वार्ताः

अर्जुनशपथम् ।


कोच्ची >केरळराज्ये पूर्णवेदपुरी समीपे विद्यमाने  पूत्तोतोट्टा क्षेत्र प्रवेशनविळम्बर-मेम्मोरियल् विद्यालये  नवमकक्ष्याछात्रः   भवति अर्जुनःI पेरुम्पळं  द्वीपनिवासी सः प्रतिदिनं किलोमीटर्द्वयं प्लवनं कृत्वा एव विद्यालयं  गच्छतिI    विद्यालय-- आतुरालयादिभ्यः  द्वीपनिवासिनः पूत्तोट्टाम् एव  आश्रयन्ति। तेषां दुरितपरिहारार्थं  सेतुनिर्माणम् आवश्यकम्। सेतु निर्माणाय जनैः प्रक्षोभः प्रज्वालितः तथापि फलप्राप्तिः न अभवत्।   इदानीं अर्जुनः शपथं कृतवान् यत्   अस्याः समस्यायाः  परिहारः यदा भविष्यति तावत् पर्यन्तं जले प्लवनं कृत्वा एव विद्यालयं गच्छामि इतिI जनसञ्चयानां जनप्रतिनिधीनां च पुरतः जूण् मासस्य प्रथमदिनादारभ्य प्लवनं कृत्‍वा विद्यालयं गन्तुमारब्धवान्।

Thursday, June 2, 2016

केरळे विधानसभाङ्गानां शपथपाठ अद्य। 

अनन्तपुरी > १४ तम केरळविधानसभाङ्गानां सत्य प्रतिज्ञाकार्यक्रमः अद्य सम्पद्यते।वरिष्ठसामाजिकः एस् शर्मा अस्थायिसभानाथरूपेण निश्चितः अस्ति। तस्य समक्षे मुख्यमन्त्रिणा इतरमन्त्रिभिः सहिताः १४० सामाजिकाः शपथपाठं करिष्यन्ति।
 इदंप्रथमतया केरळविधानसभां भाजपादलस्य प्रतिनिधिः भविष्यतीति सविशेषताप्यस्ति। सामाजिकानां नामधेयानाम् अक्षरमालाक्रममनुसृत्यैव सत्यप्रतिज्ञा सम्पत्स्यते।

ऐ.एस्. दलं विरुद्‌ध्य हिन्दी गीतमपिI

 लन्टन्> स्फोटकानि तथा हिन्दी गीतानि अपि ब्रिट्टनस्य सैनिकाः आयुधवत् उपयुज्यन्ते । मनोवैज्ञानिकदिशानुसारं गीतानि ऐ.एस्.दलेभ्यः वर्ज्यानि। ऐ एस् दलेभ्यः गीतानि मनःशक्तिं नाशयितुमेव,  एतादृशानि गीतानुपयुज्य युद्धं कर्तुम् उद्युक्ताः । मनोवैज्ञानिकाधारेण ऐ.एस्. विरुद्ध्य युद्धं कर्तुं विशेषतया परिशीलताः सेनादलमपि अयोजितम् अस्तिI 'शरी अत्' नियमानां लङ्घनमेव संङ्‌गीतश्रवणम् अतः ऐ.एस्.भीकराः रोषेण रेडियो द्वारा तेषां विप्रतिपत्तिं प्रकटीकुर्वन्ति। तस्मिन् समये रेडियोतरङ्गस्य प्रभव-स्थानं ज्ञात्वा तान् गृहीतुं शक्नोनोति इति वदन्ति बिट्टनस्य सैनिकाः ।

Wednesday, June 1, 2016

सोपानम्-01 2016 June 1  Parvati J Govt. Girls UPS Ernakulam.

विशेषवार्ता
नाम- तनिष्कः, वयः- ११, स्नातक बिरुदत्रयम्।

कोच्ची > आदि शङ्करस्य केरळ देशात् ११ वयस्क: तनिष्कः नाम बालकः स्नातकबिरुदेन अलङ्कृतः। तस्मै स्नातक बिरुदत्रयं सन्ति। अष्टादशे वयसि वैद्य -बिरुदमार्जयितुमेव इदानीम् एतस्य प्रयत्नः।

केरळात् अमेरिक्कायाः कालिफोर्णियायां साक्रमेन्टा देशे वासं कुर्वन्नयं बलकः तस्य पिता बिजो एब्रहां तत्र सोफ्ट् वेर् एन्जिनियर् माता ताजि एब्रहां तत्र पशुवैद्यं करोति।

तस्मै कार्टूण् चलन चित्रं , वीडियो गयीं च रोचते, तथापि पठनेषु बद्धश्रद्धः च। सप्तमे वयसि विद्यालयपठनं समाप्य कला शालापठनमारारब्धवान् । गणिते, वैज्ञानिके, वैदेशिकभाषासु च बिरुदत्रयम् सम्पादितवान्। अमेरिक्कायाः विश्वविद्यालयतः बिरुद मार्जितः लघुवयस्कः इत्यनेन ओबामावर्येण तनुष्कः सम्मानितः आसीत्‌।


Tuesday, May 31, 2016

धूमपानं नियन्त्रितुं चित्राच्छादकम्। 

कोच्ची >अद्य विश्व धूमपानविरुद्धदिनम्। धूमपानात् जनान् निर्वर्तयितुम् उन्मादकवस्तूनां पोटलकेषु चित्राच्छादकानां प्रयोगः विश्वस्वास्थ्यसंघटनेन निर्दिष्टः।
   वियुक्तः कपोलः, पतितप्राया जिह्वा ,छिद्रितः कन्धरः , विकृतः अधरः इत्यादीनि भीतिजनकानि चित्राणि भवेयुः धूमपानार्थिनां दृष्टिपथमाच्छेयुः इति WHOसंस्थायाः सन्देशः। आस्त्रेलिया फ्रान्स् ब्रिट्टन् अयर्लान्ड् इत्येतेषु राष्ट्रेषु एतादृशचित्राणि एव आवरणके प्रयुक्तानि। भारते अपि एतादृशरीतिः अवलम्बनीया इति निर्देशः आगतः।

Monday, May 30, 2016

भवनरहितेभ्यः प्रधानमन्त्रिणः पद्धतिः।

अनन्तपुरी > प्रधानमन्त्री आवास् योजना इति केन्द्रसर्वकारस्य भवननिर्माण-पद्धतिमनुसृत्‍य राज्येषु विद्यमानेभ्यः भवनरहितेभ्यः भवनानि निर्मातुं केन्द्रसर्वकारस्य अनुज्ञा। केरळे योजानानुसारं ८३८२ भवनानि निर्मीयन्ते ।  २५१.६ कोटि रूप्यकाणां व्ययः भविष्यति।
  तत्र १२५.८कोटि रूप्यकाणि सर्वकारेण दीयते। शिष्टानि रूप्यकाणि राज्यसर्वकारेण नगरसभाभिः गुणभोक्तृभिश्च वोढुं विधास्यन्ते।
  केरळे सप्तनगरेषु एव इमां  पद्धतिं प्रवृत्तिपथमानेष्यति।
  केन्द्रसर्वकारेण गतजूण्मासे आरब्धा पद्धतिरियम्। २०२२ तमे संवत्सरे सर्वेषां नगरवासिनां स्वगृहम् इत्येतदेव अस्याः लक्ष्यः।
 उत्तरपूर्वराज्याणां विकसनं प्राधान्यमर्हति - मोदी

 षिल्लोङ् > उत्तरपूर्वराज्याणां संपूर्णविकसनं देशीयजनाधिपत्यदलस्य मुख्यं लक्ष्यमेव भवतीति प्रधानमान्त्रिणा उक्तम्। ह्यः षिल्लोङ् नगरे उत्तरपूर्वमण्डलानां समितेः ६५ - तम समग्रयोगस्य समापनसमारोहे भाषयन् आसीत् प्रधानमन्त्री। उत्तरपूर्वराज्याणां विकसनाय गतागतमार्ग:, रेल्मार्गः, ऊर्जसं रक्षणं , जलगतागतं, वार्ता विनिमयः इत्यादिषु सर्वेष्वपि मण्डलेषु आवश्यकानि प्रवर्तनानि आयोजायितुं केन्द्रसर्वकारः प्रतिज्ञाबद्धः इति प्रधानमन्त्रिणा सूचितम्।उत्तरपूर्वराज्याणां कृते प्रथमं ब्रोड्गेज् पासञ्चर्यानं प्रधानमन्त्रिणा उद्‌घाटितम्। तेभ्यः राज्येभ्यः ३४५ कोटिरुप्यकाणां विनियोगेन ८४ कि.मी. रेल्मार्गः केन्द्रसर्वकारेण पूर्तीकृतः वर्तते।


युद्धशमनं विना राष्ट्रसीमा

 जम्मु काश्मीर् > राष्ट्रसीमायां नियन्त्रणरेखायाः समीपे पुनरपि आतङ्गवादिनां सान्निध्यम्। कुप्पुवारा मण्डले आतङ्गवादिनां सान्निध्यमस्ति इति सूचनानुसारं कृते अन्वेषणे दिनद्वयस्य कठिनपरिश्रमेण भारतसैनिकाः आतङ्गवादिजनान् मारितवन्तः।आक्रमणे चत्वारः आतङ्गवादिनः मृतवन्तः। एकः सैनिकः वीरचरमं प्राप्तवान् च ।मण्डलात् विविधा: आयुधा: च लब्धा: सन्ति।


ओबामा हिरोषिमायाम् 

   वाषिङ्टण्> सप्ततिवर्षेभ्यः पूर्वं १९४५ तमे वर्षे जापानस्य हिरोषिमायाम् अमेरिकया अण्वायुधपरीक्षणं कृतम् आसीत्। एतत् चरित्रसत्यम्। ततः परं एतावता अमेरिकायाः यः कोऽपि अध्यक्षः हिरोषिमायाम् सन्दर्शनं न अकरोत्। एतदपि चरित्रसत्यमेव। किन्तु इदानीम् अमेरिका अध्यक्षः बराक् ओबामा महोदयः स्वपूर्विकाणां पारम्पर्यं परिष्कर्तुं निश्चयमकरोत्।विना विलम्बमेव तस्य हिरोषिमा सन्दर्शनं भविष्यतीति सूचना आगता। तर्हि तदपि अन्यदेकं चरित्रं भवेत्।

देशीयशैक्षिकनयः अन्तिमदशायाम्
  नदेहली> देशीयशैक्षिकनयरूपीकरणाय आयोजितया समित्या निर्देशः समर्पितः। पूर्वतनमन्त्रिसभानिर्वाहकः टि एस् आर् सुब्रह्मण्यम् आसीत् समितेः अध्यक्षः। ह्यः मानवविभवशेषिविभागस्य अध्यक्षाय स्मृती इरानी महोदयाय समित्या पठनरेखा समर्पिता वर्तते।

अन्तर्जालोपयोगः निशुल्कः भवतु - ट्राय् अध्यक्ष: 

                    दहली:- राष्ट्रे अन्तर्जालोपयोगस्य एकीकरणम् आवश्यकमिति ट्राय् अध्यक्ष: आर्.एस्.शर्मा । राष्ट्रे अन्तर्जालसौकर्यादिकं दूरवाणीद्वारा दीयमानं साहाय्यसंविधानम् इव निशुल्कं भवतु इति तेन सूचितम्। अपि च अन्तर्जालोपयोगाय स्वीक्रियमाणं धनमूल्यं वैविध्यरहितं भवतु इति वार्ताविनिमयसेवनदातृन् सः अभ्यर्थितवान्।

देशीयगानविवादः- फरुक् अब्दुल्ला क्षमायाचनम् अकरोत्।

        नवदहली -  पश्चिमबङ्गाले ममता बानर्जी महोदयायाः सत्यप्रतिज्ञावेलायां जङ्गमदूरवाणीद्वारा भाषणं कृत्वा विवादे अन्तर्भूतः जमू काश्मीरराज्यस्य पूर्वतन मुख्यसचिवः फरुक् अब्दुल्ला क्षमायाचनम् अकरोत्। सत्यप्रतिज्ञावेलायां देशीयगानालपनसमये अन्ये सर्वेऽपि मानं तिष्ठन्तः स्म, तदा जङ्गमदूरवाणीद्वारा भाषणं कुर्वतः फरुक् अब्दुल्लायाः दृश्यं सामूहिकमाध्यमेषु प्रसारितं आसीत्।एतदुपरि महान् आक्षेपः उन्नीतः च।किन्तु राष्ट्रम् अवमानयितुं मया किमपि न आचरितं, तथापि मम कृत्यं यस्य कस्यापि वेदनाम् अजनयत् चेत् कृपया क्षम्यतामिति फरुक् अब्दुल्लया अभ्यर्थितम्।

आणवोर्जसङ्घाङ्गत्वम् - भारतस्य कृते अमेरिकायाः आनुकूल्यम्

       वाषिङ्टण् - लोके आणवोर्जोत्पादन-विनियोगादिकं क्रियमाणानां राष्ट्राणां सङ्घे भारतस्य अन्तर्भावाय अमेरिकायाः आनुकूल्यम्। भारतस्य अन्तर्भावविषये गतदिने पाकिस्तानेन आक्षेपः उन्नीतः आसीत्। एतदुपरि अमेरिकायाः प्रतिकरणं श्रद्धेयं भवति। सङ्घे अङ्गत्वमित्येतत् केवलम् अण्वायुधनिर्माणाय उपयोगाय च अनुमतिः इति न, अपि च आणवोर्जस्य यथाविधि अवश्य मण्डलेषु विनियोगः एव इति अमेरिकया सूचितम्।

  देहल्यां धूमपाननिरोधः 

                   नवदेहली- देहल्यां सामूहिकप्रदेशेषु धूमपानस्य निरोधः भविष्यति इति सूचना। धूमपानस्य तथा अन्येषां उन्मादकवस्तूनां च निरोधनाय आरक्षकाधिकारिभिः निर्देशः स्वीकृतः अस्ति। २००३ तमे वर्षे आयोजित 'कोट्पा' नियमानुसारमेव नूतनपरिष्कारः। देहल्याः क्रमसमाधानदायित्वं निर्वहन् आरक्षकाधिकारिः पि कामराजः एव नूतनपरिष्कारविषये असूचयत्।

Sunday, May 29, 2016

ओडीषायां शिरस्त्राणं नास्ति चेत् इन्धनं न लभ्यते।

भुवनेश्वरम् > वीथीसुरक्षां दृढीकर्तुं द्विचक्रिकायात्रिकानां शिरस्त्राणधारणं  बलन कारयितुम् ओडीषासर्वकारस्य निश्चयः। एतदर्थं शिरस्त्राणं विना प्राप्तेभ्यः द्विचक्रिकायात्रिकेभ्यः इन्धनोत्तोलनयन्त्रेभ्यः इन्धनं न दातव्यमिति सर्वकारस्य निर्देशः। आरक्षकैः निरीक्षणमपि अस्मिन्विषये निर्दिष्टम्।

 क्रीडा वार्ता

चाम्प्यन्स् लीग् मकुटम् रयल् मड्रिडाय

मिलान् > युवेफ चाम्प्यन्स्लीग् अन्तिमचक्रे रयल् मड्रिड् विजयम् आप्तवन्तः। निर्दिष्टे काले अधिकसमये च क्रीडा एकस्य एकं (१-१ ) इति समावस्थायां 'पेनाल्टि षूट्औट्' मध्ये रयलः विजयपथं प्राप्तवान्। पञ्चदश निमेषे लब्ध्म् स्वतन्त्र क्षेपणं (Fee kick) एव रयलस्य प्रथम जालक्षेपाय (Goal) सन्दर्भः।
छात्राणां संस्कृत वार्तावतरणम् जूण् आरभ्यl

कोच्ची >जूण् मासस्य प्रथम दिनादारभ्य 'सम्प्रतिवार्तायां' संस्कृत वार्तावतरणम् आरप्स्यते । अन्तर्जालमाध्यमेन छात्रैः क्रियमाणं वार्तावतरणं विश्वे प्रप्रथममेव। कालटी संस्कृतविश्वविद्यालयस्य उप-कुलपतिः डॉ. एम् सि दिलीप् कुमार महोदयस्य आशंसावचनेन स्वागतवचनेन च वार्तावाचनम् आरप्स्यस्यते । एरणाकुळं नगरस्य दक्षिणपरिसरे विराजमानस्य सर्वकारीय- उच्च,विद्यालयस्य विद्यार्थिनी कुमारी पार्वती जे प्रथमवार्तावाचनं करिष्यति । प्रातः दश-वादने प्रतिवारं वार्ताः भविष्यन्ति।


ओडीषायां शिरोकवचं नास्ति चेत् इन्धनं न लभ्यते। 

भुवनेश्वर् - वीथीसुरक्षां दृढीकर्तुं द्विचक्रिकायात्रिकानां शिरोकवचधारणं  बेलन कारयितुम् ओडीषासर्वकारस्य निश्चयः। एतदर्थं शिरोकवचं विना प्राप्तेभ्यः द्विचक्रिकायात्रिकेभ्यः इन्धनोत्तोलनयन्त्रेभ्यः इन्धनं न दातव्यमिति सर्वकारस्य निर्देशः। आरक्षकानां परीक्षणमपि निर्दिष्टम्।

Saturday, May 28, 2016

कैलास-मानससरोवरसन्दर्शनाय चैनायाःउदारमनस्कता। 

बीजिंग् > नाथुलापास् इति चैनासंरक्षितमार्गेण मानससरोवरस्य तथा कैलासस्य च सन्दर्शनाय यात्रानुमतिः दास्यतीति चैना। चैनां सन्दर्शयन् भारतराष्ट्रपतिः प्रणाब् मुखर्जी चैनादेशस्य राष्ट्रपतिः षी जिन् पिङ् च मिलित्वा कृतचर्चानन्तरमेव एतादृशमुद्घोषणं जातम्।
  नाथुलापास् द्वारा गतसंवत्सरे २५० तीर्थाटकानाम् अनुज्ञा कृता। इतःपरं तीर्थाटकेभ्यः प्रवेशनं दातुं चैना सन्नद्धा अस्ति।

वंगदेशे पुनरपि ममतासर्वकारः। 
कोल्कोत्ता > पश्चिमबंगालराज्ये ममता बानर्जिवर्यायाः नेतृत्वे तृणमूल् कोण्ग्रस् सर्वकारः अधिकारं प्राप्तवान्। पौनपुन्येन द्वितीयवारमेव ममतायाः मुख्यमन्त्रिपदप्राप्तिः।
 वर्णाभे समारोहे राज्यपालस्य केसरिनाथत्रिपाठीवर्यस्य समक्षे ममता शपथपाठं कृत्वा मुख्यमन्त्रिपदं प्राप्तवती। ततः ४१ मन्त्रिणश्च सत्यप्रतिज्ञां कृतवन्तः।

Friday, May 27, 2016

राज्याणि प्रति केन्द्रनिर्देशः। वृष्टिसञ्चयनं कार्यमिति।
        

    नवदिल्ली> देशव्यापकानावृष्टेः पश्चात् तले सर्वनगरेषु वृष्टिसञ्चनाय ऊर्जित-कर्मपद्धति-विधानार्थं नगरविकसनमन्त्रालयैः राज्याणां कृते निर्दशः। नव- निर्माणप्राय- भवनानि तथा प्राक्तनान्यपि एतदर्थं सिद्धानि  स्युः। जलसंरक्षणनियमाः कार्यक्षमतया विधीताः इति निरूपितुं नगरसभासु  सज्जीकरणानि स्वीकुर्युः इति च राज्यस्य प्रधानसचिवानां कृते प्रेषितेषु  पत्रेषु केन्द्र-नगरविकसनसचिवः राजीव गौबा निरदिशत् ।

 वैद्यानां निवृत्तिवयः ६५ करिष्यति - प्रधानमन्त्री

सहारन्पुरम् > राष्ट्रे सर्वत्र सर्वकारभिषग्वराणां सेवानिवृत्तिवयः ६५ इति वर्धयिष्यते इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। इदानीं राष्ट्रे वैद्यानां क्षामः अनुभूयते। तत्परिहर्तुमेवायं क्रियाविधिः। सप्ताहाभ्यन्तरेण केन्द्रमन्त्रिसभया अस्मिन् विषये निर्णयः भविष्यतीति प्रधानमन्त्रिणा उक्तम्।
  एन् डि ए सर्वकारस्य द्वितीयवार्षिकमनुबन्ध्य उत्तरप्रदेशस्य सहारन्पुरे आयोजिते पथसञ्चलने भाषमाणः आसीत् मोदिवर्यः। इदानीं केन्द्र - राज्य सेवनविधीन् अनुसृत्य निवर्तनवयसि भेदः वर्तते। तदेकीकृत्य निवर्तनवयः ६५ इति वर्धयिष्यते।

समुद्रहत्या - इट्टलीं प्रतिगन्तुं नाविकाय अनुमतिः।

नवदिल्ली> धीवरहननविषये अपराधिने नाविकाय स्वशम् इट्टलीं निवर्तयितुं परमोच्चन्यायालयेन अनुमतिः लब्धा। प्रतिभूतिव्यवस्थाः उदारीकृत्य एव इट्टालियन् नाविकाय साल्वत्तोरे गिरोणी नामकाय  निवर्तनानुमतिः दत्ता।
   अस्मिन् विषये इट्टलीभारतयोः मिथः वर्तमाने अधिकारसीमातर्कविषये अन्ताराष्ट्र मध्यस्थता न्यायालयस्य विधिपर्यन्तं स्वदेशे उषितुमेव अनुज्ञा। निबन्धनाचतुष्कमनुसृत्यैव अनुज्ञा दत्ता।

Thursday, May 26, 2016

बृहदजगरं राजसर्पः अगलयत्।

कोच्ची>सर्वं गिलन्तं बृहदाकारं शक्तं च अजगरं राजसर्पः गिलति स्म। केरले एरणाकुलं जनपदे कालटी समीपे काननविभागस्य तैलतालवाटिकायामेव इयम् अपूर्वा घटना सञ्जाता।
  १२ पादपरिमितः बृहद्राजसर्पः तथावत्परिमितम् अजगरं गिलति स्म। तालवृक्षवाटिकस्थाः कर्मकराः एतद्दृश्यं वीक्ष्य वनपालकान् ज्ञापितवन्तः।
    कोटनाट् वनप्रविश्यायाः अधिकारी सर्पधारकविदग्धश्च जे बि साबुः आगत्य राजसर्पस्य वक्त्रात् अजगरं बहिर्नीतवान्। किन्तु  त्रिपादपरिमितं राजसर्पान्तर्गतः अजगरः मृत आसीत्। राजसर्पस्तु गिलितम् अजगरं बहिर्गमयितुं शिष्टं गिलितुं वा अशक्तः विषमसन्धिं प्राप्तः आसीत्।
   साबुवर्यस्तु बहुधा क्लेशयित्वा सर्पद्वयं पृथक्कृतवान्। द्वयस्यापि अतिभारत्वात् राजसर्पं स्वस्कन्धे स्थापयित्वा अजगरं हस्ते स्वीकृतवान्। अन्ते राजसर्पः जीवन्मरणसंग्रामं कृत्वा अजगरम् अवमत् च। राजसर्पं वनमेव विमोचयत।
राष्ट्रे नूतनसर्वकाराणां  स्थानारोहणं सम्पन्नम्।

अनन्तपुरी>केरळस्य १९ तम सर्वकारः पिणरायी विजयस्य नेतृत्वे सत्यप्रतिज्ञां कृत्वा अधिकारस्थानमाप्नोत्। अनन्तपुर्यां सेन्ट्रल् स्टेडियं मध्ये सम्पन्ने सत्यप्रतिज्ञासमारोहे प्रथमं पिणरायी विजयः राज्यपालस्य पि सदाशिवं वर्यस्य समक्षे गौरवप्रतिज्ञाम् अकरोत्। तदनन्तरम् अक्षरमालाक्रमेण अन्ये १८ सामाजिकाः शपथं कृत्वा  मन्त्रिपदं प्राप्तवन्तः।
राज्यस्य नानाभागतः सहस्रशः जनाः कार्यक्रमान् वीक्षितुं स्टेडियं प्राप्तवन्तः।
 भूतपूर्वः प्रधानमन्त्री देवगौडा, सि पि एम् दलस्य सचिवमुख्यः सीतारां यच्चूरी प्रभृतयः देशीयनेतारः; वि एस् अच्युतानन्दः , उम्मन् चाण्टी, इत्यादयः राजनैतिकदलनेतारः सांस्कृतिक कलारङ्गप्रमुखाः च समारोहस्य साक्षिणः अभवन्।

वंगदेशे पुनरपि ममतासर्वकारः। 
(कोल्कोत्ता ) पश्चिमबंगालराज्ये ममता बानर्जिवर्यायाः नेतृत्वे तृणमूल् कोण्ग्रस् सर्वकारः अधिकारं प्राप्तवान्। पौनपुन्येन द्वितीयवारमेव ममतायाः मुख्यमन्त्रिपदप्राप्तिः।
 वर्णाभे समारोहे राज्यपालस्य केसरिनाथत्रिपाठीवर्यस्य समक्षे ममता शपथपाठं कृत्वा मुख्यमन्त्रिपदं प्राप्तवती। ततः ४१ मन्त्रिणश्च सत्यप्रतिज्ञां कृतवन्तः।
अस्समे सर्बानन्द सोनोवाल् सत्यप्रतिञज्ञाम् कृतवान्
तमिळ नाटु राज्ये कुमारी जयलालिता,वेस्ट् बङ्गाल राज्ये ममता बानार्जी च सत्यप्रतिञज्ञाम् कृतवत्यौ।

स्वदेशी पुनरुपयोग-विक्षेपण-वाहनमातृका अभिमानस्फूर्तिः

  ‍श्रीहरिककोट्टा> ऐ एस् आर् ओ संस्थाय़ाः साक्षात्कारपट्टिकायां प्रप्रथमबाह्याककाशपेटकस्य परीक्षणविजयः तद्दिशि व्ययन्यूनीकरणं लक्षीकरोति। तिरुवनन्तपुरं विक्रम साराभाई बाह्याकाशकेन्द्रसङ्घनेतृत्वे श्रीहरिक्कॊट्टाकेन्द्रात् परह्यः प्रातः स्वदेशी नामकं  बाह्याकाशपुनरुपयॊगीवाहनपेटकं परीक्षणदौत्यं पूर्तीकृत्य - ६५ कि.मी उपरि- वङ्गसमुद्रं प्रत्यागतं ।  एस् यू वी सदृशं -६.५ मी दीर्घा १.७५ टण् भारयुतं - पेटकं  १२ मिनिट् ७७०निमेषैः शब्दादपि ५ गुणित वेगेन अन्तरिक्षवलयं भित्वा  पश्चात् प्रत्यागतम् ।१५ वर्षाणां  श्रमेण तापव्यतियानानि सुरक्षितमतिजीव्य परीक्षणमेतत् विक्षेपणवाहनगवेषणे प्रथमपदविन्यासः तथा १०-१५ वर्षाभ्यन्तरे पूर्णविकसितं च भविष्यतीति  अधिकारिणां प्रतिक्षा । वि सा बा के निर्देशकः डा. के. शिवः पद्धतिनिर्देशकः डा. श्याममॊहनः च नेतृत्वमूढवन्तः९५ कॊटिरूप्यकाणि एव एतदर्थं व्ययः। प्रधानमन्त्री श्री नरेन्द्रमॊदी महाभागः शास्त्रज्ञान् अभिनन्दितवान्।

मोदिसर्वकारस्य वयःद्वयम्।

नवदिल्ली> केन्द्रे नरेन्द्रमोदिनः नेतृत्वे  एन् डि ए सर्वकारस्य स्थानलब्धेः अद्य वर्षद्वयं सम्पूर्णते। २०१४ मेय् २६ तमदिनाङ्के आसीत् मोदिसर्वकारस्य अधिकारप्राप्तिः। विधानसभानिर्वाचनेषु भाजपा दलस्य उत्कर्षपूर्णं प्रवर्तनं निर्वोढुम् अशक्नोत् इति आत्मविश्वासे अस्ति सर्वकारः। तथापि आर्थिकमण्डले विदेशनयरंगे च दुष्करः साहचर्यः आसीत्। समीपकाले  राष्ट्रेण अभिमुखीकृतं महती अनावृष्टिश्च सर्वकारस्य महान् प्रतिकार आसीत्। द्वितीयसंवत्सराघोषस्य अंशत्वेन शनिवासरे दिल्ल्यां कार्यक्रमाः आयोजिताः।

महानौकापनयनाय श्रमः -५ पाकिस्थानीय नाविकोद्योगस्थानां मृत्युदण्डः।

इस्लामबादः>इस्लामिकराज्य- ऐ एस् - सम्बन्धिनां नाविकोद्योगस्थानां नाविक-मन्त्रालयेन मृत्युदण्डः विहितः। अमरीक्कायाः नाविकसेनायाः महानौकानाम् आक्रमणाय पाकिस्थानीय-युद्धविमानं पी एन् एस् सुल्फिकर् अपनयनश्रमायैव दण्डः। सब् लफ्. हमाद् अहमद तथा चत्वारः उद्योगस्थाश्च दण्डिताः। कराच्ची नाविकमहानौकाशालायां २०१४ तमस्य सप्तम्बर् मासस्य षष्टे-दिने एतेषामेव नेतृत्वे आक्रमणं प्रवृत्तमासीत्। इस्लामिक-राज्यसम्बन्धः, कलापः, गूढालोचना, नौकाशालायुधानां अपहरणम्  इत्यादि दुष्प्रवृत्तीनामेव  दण्डः। आक्रमणाभ्यन्तरे द्वौ आतङ्कवादिनौ हतौ तथा पञ्च कारागारे प्रवेशिताश्च।

मल्यस्य सङ्केतः दातव्यः इति न्यायालयः।

हैदराबाद् > यचिकाविषये अपराधित्वेन विद्यमानस्य विजयमल्यस्य इदानींतनसङ्केतः लभ्यमानः भवितव्य इति हैदराबाद् न्यायालयेन आदिष्टम्। १२ कोटि रूप्यकाणां धनादेशविषये हैदराबाद विमाननिलयसंस्थया उन्नीतम् अभियाचनमनुसृत्यैव न्यायालयस्य आदेशः।

Wednesday, May 25, 2016

 अध्ययनवत्सरं स्वागतं कर्तुं सर्वशिक्षा अभियानस्य नूतनपद्धत्यः।

कोच्ची > नूतनमध्ययनसंवत्सरं स्वागतं कर्तुं सर्वशिक्षा अभियानेन बहुविधपद्धत्यः रूपवत्कृताः। मेय् ३० तमदिने समन्वयं २०१६ इति नाम्नि विविधकेन्द्रेषु शिल्पशालाः प्रचालयिष्यन्ति। शिल्पशालासु भागभागित्वं दृढीकर्तुं डयट् प्रतिनिधिः , ए ई ओ , बि पि ओ  इत्येषां नेतृत्वे प्रथमाध्यापकानां मेलनं २८तमदिनाभ्यन्तरे कर्तुं निर्देशः अस्ति।
३१ तमदिनाङ्के सर्वे अध्यापकाः विद्यालयमागत्य आगामिनः अध्ययनवर्षस्य प्रवर्तनानाम् आसूत्रणं सूक्ष्मतले करणीयम्।
जूण् जूलाय् आगस्ट् मासानां प्रवर्तनदिनदर्शिका रूपवत्करणीया।
 विद्यालयप्रवेशनोत्सवः सम्यग्रीत्या आघोषयिष्यते। प्रथमकक्ष्याप्रवेशाय आगम्यमानेभ्यः छात्रेभ्यः प्रवेशनस्यूतवितरणं करणीयम्।

 प्रचण्डवातः - मृतिः २४

धाक्का > बंगलदेश राष्ट्रस्य दक्षिणतीरेषु रोवोनु प्रचण्डवातः वाति स्म। तस्मिन् दुर्घटनायां मृतानां संख्या चर्तुर्विंशाति (२४)अभवत्। शताधिकाः व्रणिताः। ८८ किलोमीट्टर् वेगेन आगतः प्रचण्डवातः बरिसाल् - चिट्टगोङ्‌ मण्डलेषु नाशम् अकरोत्। पञ्चलक्षसंख्यकान् जनान् सुरक्षित स्थानं प्रेषितः। वृक्षाः सौधाः च अधः पतिताः।  चिट्ट गोङ्‌स्य विमान निलयः स्थगितः। दुर्घटना मधिकृत्य सूचना पूर्वमेव प्रसारिता इत्यनेन मृतानां संख्या न वर्धिता्।

 चेन्नै नगरे अत्युष्णः - जीवितं दुस्सहम्।

चेन्नै> नगरं पुनरपि अत्युष्णस्य करालहस्ते। समुद्रवातस्य विलम्बेन वीजनं उष्णस्य अनुदिनवर्धनं च दिनसमयेषु जनजीवनं दुस्सहं कारयति।
  गतदिने नुङ्कम्पाक्कं प्रविश्य़ायां ४०.४ डिग्री ताप मीनम्पाक्के ४०.५ डिग्रीमित तापश्च अनुभूयते स्म।

Tuesday, May 24, 2016

दशवर्षाधिकपुरातनानां डीसल् यानानां निरोधनम्। 

कोच्ची - केरले  दशवर्षाधिकपुरातनत्वमार्जितानि डीसल् तैलयानानि राज्यस्य षट्सु कोर्परेषन् प्रदेशेषु च निरुध्य देशीयहरितन्यायाधिकरणस्य आदेशः। सार्वजनीनगतागतोपयोगयुक्तेभ्यः ऋते  २००० सि सि मानकादुपरि शक्तियुक्तानां  डीसल् यानानां पञ्जीकरणमपि अस्थायित्वरूपेण निरुद्धम्।
  के एस् आर् टि सि संस्थायै प्रतिकूलाय भविष्यति एषः आदेशः। तिरुवनन्तपुरम, कोल्लं, कोच्ची, तृश्शूर्, कोष़िक्कोट्, कण्णूर् इत्येषु कोर्परेषन् नगरेषु विद्यमानानां अल्पभारयानानां बहुभारयानानां च निरोधः आदिष्टः।

केरले नूतनसर्वकारस्य  सत्यप्रतिज्ञा अद्य।

अनन्तपुरी - केरले पिणरायी विजयस्य नेतृत्वे नूतनसर्वकारस्य सत्यशपथकार्यक्रमाय अनन्तपुरी सेन्ट्रल् स्टेडियं सिद्धम्। अद्य सायं चतुर्वादने राज्यपालस्य पि सदाशिवं वर्यस्य सान्निध्ये  सत्यप्रतिज्ञां करिष्यति।
   जनानामपि कार्यक्रमे भागभागित्वं वोढुम् अवसरः लप्स्यते। मुख्यवितानस्य २५०० सदस्यानाम् आसनव्यवस्था अस्ति। किञ्च पञ्चायुतं जनानां कार्यक्रमान् साक्षात् द्रष्टुं सौकर्यः वर्तते।
  कार्यक्रमेस्मिन् राजनैतिक सांस्कृतिक धार्मिकप्रमुखाः च निमन्त्रिताः सन्ति।
किरण् बेदी पुतुच्चेरी प्रदेशस्य लफ्टनन्ट् राज्यपालः। 

नवदिल्ली - भूतपूर्वा ऐ पि एस् कार्यकर्त्री तथा च भाजपा नेत्री किरण् बेदी पुतुच्चेरी राज्यस्य लफ्टनन्ट् राज्यपालरूपेण नियुक्ता।
  विधानसभानिर्वाचने तत्र कोण्ग्रस्  दलं विजयं प्राप्नोत्। मन्त्रिसभायाः सत्यप्रतिज्ञा २५ तमे दिनाङ्के प्रतिक्षते। ततः पूर्वं किरण्बेदीवर्यया  कर्तव्यं वोढुमर्हति। राष्ट्रस्य प्रथमवनिता ऐ पि एस् अधिकारी भवति किरण् बेदी।

महाराष्ट्रायां जूतानां न्यूनपक्षपदम्।

मुम्बई >राष्ट्रेरे जूतवंशजेभ्यः  न्यूनपक्षपदवीं दातुं सर्वकारस्य निश्चयः। अतः एतेषां कृते शैक्षिक - सांस्कृतिक मण्डलेषु सविशेषाधिकाराः लप्स्यन्ते। किञ्च विशुद्धस्थानं जरुसलें सन्दर्शितुं सर्वकारीयार्थिकसाह्यमपि दास्यति।
  न्यूनातिन्यूनं पञ्चसहस्रं जूताः राष्ट्रे विद्यन्ते। तत्र प्रायेण अर्धसंख्याकाः महाराष्ट्रायां मुम्बई पूने कोङ्कण् मणडलेषु वर्तन्ते।

तमिळ् नाट् राज्ये ५०० मदिरालयाः रोधिताः

चेन्नै > मुख्यमन्त्रिणी पदवीम् आरुह्य जयललिता महाभागया ५०० मदिरालयाः बन्धिताः। शिष्टाणां प्रवर्तन समयः प्रातः दशघण्डातः आरम्भय  रात्रौ दश पर्यन्त इति पुनर्निर्णीतः च। गार्हिकोपयोगाय १०० यूनिट्ट् वैद्युति  तन्तुवायानां कृते ७५० यूनिट्ट् वैद्युति च निशुल्कं लभते। 

Monday, May 23, 2016

तालिबान् नेता मुल्ला मन्सूरः निहतः। 

वाषिङ्टण् > तालिबान् भीकरसंस्थायाः नायकः मुल्ला अक्तर् मन्सूरः अमेरिकायाः व्योमाक्रमणे हत इति तेन राष्ट्रेण विज्ञापितम्। पाकिस्तान्-अफ्गानिस्तान् देशयोः सीमाप्रान्तनगरे दल्बन्दे कृते व्योमाक्रमणे एव सः हत इति वैट् हौस् वृत्तैः सूचितम्।
  तालिबानस्य स्थापकनेतुः मुल्ला ओमर् नामकस्य हननानन्तरं २०१५ जूलाय्मासे  नेतृस्थानमाप्तः मुल्ला मन्सूरः अफ्गानिस्ताने सम्पन्नानां बहूनां भीकराक्रमणानां सूत्रधार आसीत्।
  राजस्थानस्य मुख्यमन्त्रिणी योगस्य कक्ष्यायाम्।

जयपुरम् > मनसः सम्मर्दान् उल्लङ्ख्य शासनं सक्षमं कर्तुमुद्दिश्य राजस्थानस्य मुख्यमन्त्रिणी वसुन्धरा राजे अमात्यैः साकं योगासन कक्ष्यायां प्राविशत्। इष फौन्टेषन् नाम संस्थायाः स्थापकः सद्गुरु जग्गि वासुदेवस्य इन्नर् एन्जिनियरिङ्ङ् नाम योगासन-कक्षायामेव उन्नतोद्योगिभिः साकं तत्‌ अभ्यासाय प्रवेशः।
द्वि दिनात्मक कक्षायां विधानसभा सामाजिकाः, नियमसभा सामाजिकाः, ऐ. ए. एस् उद्योगिनः च भागभाजिनः आसन्। दिनद्वयस्य परिशीलनेन आन्तरिकसम्मर्दं विना कर्म कर्तुं प्रभवामः इति वसुन्धरा राजे महाभागया उक्तम्।

Sunday, May 22, 2016

श्रीलङ्‌का - मृत् निपातेन ३६ मृत्युः २०० जनाः मूमेः अधः।

कोळम्बो>  दिनत्रयाणि यावत् अतिवृष्ट्या जायमानायां दुर्घटनायां ३६ जनाः मृताः। कोळोम्बो नगरस्य समीपे केगल्ला देशस्य ६६ गृहाणि भग्नानि। १५० जनाः मृत् पाषाणयो: अधः एव। १५० जनाः सैनिकेन रक्षिताः। ३.३२ जनाः प्रळये दुरिते पतिताः I

 जनानां संरक्षकरूपेण अनुवर्तिष्ये - वि एस्। 

 अनन्तपुरी > जनकीयसमस्यासु तथा वामपक्षाभिवृत्तिषु च जागरूको भूत्वा केरलानां रक्षकः भविष्यामीति वरिष्ठः कम्मयूणिस्ट् नेता वि एस् अच्युतानन्दः अवोचत्।
 विपक्षनेतृस्थानात् निवृत्तयन् सः पिणरायि विजयस्य नेतृत्वे शासनाबलं प्राप्तस्य सर्वकारस्य कर्तव्यानि उद्बोधयामास।


ऐ एस् भीकराक्रमण भीषणं - जाग्रता भविष्यतीति राजनाथसिंहः।

नवदिल्ली > ऐ एस् भीकराक्रमणात् राष्ट्रं संरक्षितुं सर्वे क्रियाविधयः स्वीकरिष्यन्ते इति भारतस्य गृहमन्त्री राजनाथसिंहः अवदत्।
  भीकराक्रमणमधिकृत्य ऐ एस् संघस्य पूर्वसूचनां प्रति प्रतिकुर्वन्नासीत् गृहमन्त्री।

Saturday, May 21, 2016

 तपति राजस्थानराज्यः;
तापमानः ५१ डिग्रि्।
 जयपुरम् > शतवर्षाणां तापमानेषु अत्युच्चतमः तापः ५१ डिग्रि सेल्स्यस् गुरुवारे जोध् पुरस्य परिसरे फिलोटियायां अङ्कितः। राज्यस्य आल्वार् परिसरे १९५६ तमे अङ्कितः ५०.६ डिग्रि आसीत् पूर्वकालीनस्प अत्युष्णमानः। पाकिस्थानस्य सीमा प्रदेशेषु ५६.६ डिग्रि पर्यन्तमासीत् इति सीमा -रक्षा - सेनाकेन्द्रेण उक्तम्।


समुद्रजल-उपरिप्रतलस्य उन्नतिः भारतस्य नगराणि भीत्याम्।
 न्यूयोर्क् > समुद्रस्य उपरिप्रतलस्य क्रमातीयवर्धनया २०५० तमेवर्षेस्य समीपे भारतस्य प्रधाननगराणि समुद्रेण अतिक्राम्येत। इति ऐक्यराष्ट्र-सभायाः परिस्थितिसचिवालयः सूचयति। कोल्क्कत्त, मुम्बै, चेन्नै नगराणि समुद्रेण आप्लवेत। परिस्थित्‍यां जायमाना असन्तुलितावस्था एव अस्याः धटनायाः कारणत्‍वेन वदति। दश संख्याकानि राष्ट्राणि इदानीं समुद्राक्रमण भीत्यां तिष्ठन्ति। तेषु बङ्ग्लादेश् ,चीना, फिलिपैन्स्, ताय् लान्ट् च अन्तर्भवन्ति। एष्या -पसफिक् प्रदेशेषु एव वर्धितं समुद्राक्रमणं भविष्यति इत्यपि गवेषकाणां मतम्।

Friday, May 20, 2016

केरळे भाजपाकमलं विकसितम्। 

कोच्ची > केरळविधानसभानिर्वाचने भा ज पा दलस्य स्वप्नसाफल्यम्। केरळविधानसभाङ्गत्वमिति तेषां चिरकालाभिलाषः तिरुवनन्तपुरं जिल्लायां नेमं मण्डले भाजपादलस्य वरिष्ठनेत्रा ओ राजगोपालवर्येण सफलितः। नेमं मण्डले सम्पन्ने प्रचण्डे त्रिकोणमत्सरे सि पि एम् दलस्य वि शिवन् कुट्टिवर्यं ८६७१ मतदानैः राजगोपालः पराजयते स्म।
  परन्तु सप्तमण्डलेषु भा ज पा दलनेतृत्वे स्पर्धितम् एन् डि ए सख्यं द्वितीयस्थानं प्राप्तम्। तेषु कासर्गोड् जनपदे मञ्चेश्वरं मण्डले चषकोष्ठयोर्मध्ये द्वितीयं विजयसोपानं विनष्टम्। भाजपायाः के सुरेन्द्रः केवल ८९ मतदानैः पराजितः।