OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 5, 2016

अफ्‌गान् राष्ट्रस्य परमोन्नतपुरस्कारः नरेन्द्रमोदीवर्याय

        
        हेरात्त्> - परमोन्नतं आमिर् अमानुल्लाखान् पुरस्कारम् नरेन्द्रमोदिने समर्प्य अफ्गान् राष्ट्रस्य आदर:Iअफ्गानिस्ताने  नूतनतया निर्मितस्य 'सल्मा डाम्' इत्यस्य उद्घाटनसमारोहे एव पुरस्कार समर्पणम् अभवत् ।भारतस्य सहयोगेनैव डाम् निर्मितं वर्तते।
अफ्गान्‌ राज्यस्य त्रिंशत् वर्षाणां स्वप्नस्य साक्षात्कारः एव जातः इति अफ्गान् राष्ट्रपतिना अष्रफ्खान् महोदयेन उक्तम्। डाम् उपयुज्य ४८ मेगावाट् विद्युदुत्पादनम् तथा ७५००० हेक्टर् भूमौ जलसेचनं च शक्यते।


मुष्टि-प्रहारक्रीडायाः   इतिहासः मुहम्मदलिः दिवङ्गतः



  लोस् आञ्चलस्> मुष्टिप्रहार -क्रीडकेतिहासः  मुहम्मदलिः   अमेरिकादेशे अरिसोणायाम्  दिवङ्गतः । चतुस्सप्ततिवयस्कः आसीत्। श्वासोच्छ्वसनप्रक्रियायां प्रतिबन्धमनुभूतः सः पूर्वदिनेषु चिकित्सायामासीत्। 'पार्किन्सण्' रोगबाधितः च  आसीत् ।'द ग्रेटेस्ट' , 'द पीप्प्ल्स् चाम्प्यन् ' इत्यादिभ्यां नामभ्यां विख्यातः सः विश्वकायिकमण्डले स्वप्रयत्नेन चिरप्रतिष्ठां सम्पादितवान् ।

क्रीडावार्ता

टेन्नीस् कायिकमण्डले   नवतारोदयः   

                                       पारीस् > स्पेयिन् देशीया गार्बैन् मुगुरुसा फ्रञ्च्ऑपण जेत्री । फ्रञ्च्ऑपण अन्तिमक्रीडायां चतुर्थस्थानीया गार्बैन् मुगुरुसा सेरीनाविल्यंसं ७-५ ,६-४ इति विन्यासे पराजितवती । तस्याः प्रथमः ग्रान्ट्स्लां पुरस्कारः एव अयम्।