OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 2, 2016

केरळे विधानसभाङ्गानां शपथपाठ अद्य। 

अनन्तपुरी > १४ तम केरळविधानसभाङ्गानां सत्य प्रतिज्ञाकार्यक्रमः अद्य सम्पद्यते।वरिष्ठसामाजिकः एस् शर्मा अस्थायिसभानाथरूपेण निश्चितः अस्ति। तस्य समक्षे मुख्यमन्त्रिणा इतरमन्त्रिभिः सहिताः १४० सामाजिकाः शपथपाठं करिष्यन्ति।
 इदंप्रथमतया केरळविधानसभां भाजपादलस्य प्रतिनिधिः भविष्यतीति सविशेषताप्यस्ति। सामाजिकानां नामधेयानाम् अक्षरमालाक्रममनुसृत्यैव सत्यप्रतिज्ञा सम्पत्स्यते।

ऐ.एस्. दलं विरुद्‌ध्य हिन्दी गीतमपिI

 लन्टन्> स्फोटकानि तथा हिन्दी गीतानि अपि ब्रिट्टनस्य सैनिकाः आयुधवत् उपयुज्यन्ते । मनोवैज्ञानिकदिशानुसारं गीतानि ऐ.एस्.दलेभ्यः वर्ज्यानि। ऐ एस् दलेभ्यः गीतानि मनःशक्तिं नाशयितुमेव,  एतादृशानि गीतानुपयुज्य युद्धं कर्तुम् उद्युक्ताः । मनोवैज्ञानिकाधारेण ऐ.एस्. विरुद्ध्य युद्धं कर्तुं विशेषतया परिशीलताः सेनादलमपि अयोजितम् अस्तिI 'शरी अत्' नियमानां लङ्घनमेव संङ्‌गीतश्रवणम् अतः ऐ.एस्.भीकराः रोषेण रेडियो द्वारा तेषां विप्रतिपत्तिं प्रकटीकुर्वन्ति। तस्मिन् समये रेडियोतरङ्गस्य प्रभव-स्थानं ज्ञात्वा तान् गृहीतुं शक्नोनोति इति वदन्ति बिट्टनस्य सैनिकाः ।