OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 4, 2016

मथुरायां संधर्षः , भुशुण्डिप्रयोगः - २४ मरणानि। 

लख्नौ > उत्तरप्रदेशे मथुरायां जवाहर्बाग् उद्याने लंघकान् अपाकर्तुं सम्पद्यमाने प्रयत्ने महान् संघर्षः। गतदिने रात्रौ आरब्धे संघट्टने भुशुण्डिप्रयोगे च आरक्षकानामुन्नताधिकारी मुकुल् द्विवेदी , आरक्षकः सन्तोष् यादवः इत्येताभ्यां सहिताः २४ जनाः हताः। शताधिकाः व्रणिताः। ११६ महिलासहिताः ३२० जनाः आरक्षकैः गृहीताः।
    आसाद् वैदिक वैचारिक क्रान्ति सत्याग्रही इति संस्थायाः नेतृत्वे आसीत् उद्यानलङ्घनम्। नेताजी सुभाष् चन्द्रबोस् वर्यस्य यथार्थानुयायिनः इति स्वयम् अभिमानिनां संघः भवत्येषः। ३००० परिमितं जनाः संवत्सरद्वयं यावत् अत्र निवसन्ति।
  अलहबाद् उच्च न्यायालयस्य आदेशानुसारं एतान् इतः अपाकर्तुं प्राप्तान् आरक्षकान् ए के ४७ सहितैः आयुधैः लंघकाः आक्रमणं कृतवन्तः आसन्।