OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 23, 2016

तालिबान् नेता मुल्ला मन्सूरः निहतः। 

वाषिङ्टण् > तालिबान् भीकरसंस्थायाः नायकः मुल्ला अक्तर् मन्सूरः अमेरिकायाः व्योमाक्रमणे हत इति तेन राष्ट्रेण विज्ञापितम्। पाकिस्तान्-अफ्गानिस्तान् देशयोः सीमाप्रान्तनगरे दल्बन्दे कृते व्योमाक्रमणे एव सः हत इति वैट् हौस् वृत्तैः सूचितम्।
  तालिबानस्य स्थापकनेतुः मुल्ला ओमर् नामकस्य हननानन्तरं २०१५ जूलाय्मासे  नेतृस्थानमाप्तः मुल्ला मन्सूरः अफ्गानिस्ताने सम्पन्नानां बहूनां भीकराक्रमणानां सूत्रधार आसीत्।