OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 27, 2016

राज्याणि प्रति केन्द्रनिर्देशः। वृष्टिसञ्चयनं कार्यमिति।
        

    नवदिल्ली> देशव्यापकानावृष्टेः पश्चात् तले सर्वनगरेषु वृष्टिसञ्चनाय ऊर्जित-कर्मपद्धति-विधानार्थं नगरविकसनमन्त्रालयैः राज्याणां कृते निर्दशः। नव- निर्माणप्राय- भवनानि तथा प्राक्तनान्यपि एतदर्थं सिद्धानि  स्युः। जलसंरक्षणनियमाः कार्यक्षमतया विधीताः इति निरूपितुं नगरसभासु  सज्जीकरणानि स्वीकुर्युः इति च राज्यस्य प्रधानसचिवानां कृते प्रेषितेषु  पत्रेषु केन्द्र-नगरविकसनसचिवः राजीव गौबा निरदिशत् ।

 वैद्यानां निवृत्तिवयः ६५ करिष्यति - प्रधानमन्त्री

सहारन्पुरम् > राष्ट्रे सर्वत्र सर्वकारभिषग्वराणां सेवानिवृत्तिवयः ६५ इति वर्धयिष्यते इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। इदानीं राष्ट्रे वैद्यानां क्षामः अनुभूयते। तत्परिहर्तुमेवायं क्रियाविधिः। सप्ताहाभ्यन्तरेण केन्द्रमन्त्रिसभया अस्मिन् विषये निर्णयः भविष्यतीति प्रधानमन्त्रिणा उक्तम्।
  एन् डि ए सर्वकारस्य द्वितीयवार्षिकमनुबन्ध्य उत्तरप्रदेशस्य सहारन्पुरे आयोजिते पथसञ्चलने भाषमाणः आसीत् मोदिवर्यः। इदानीं केन्द्र - राज्य सेवनविधीन् अनुसृत्य निवर्तनवयसि भेदः वर्तते। तदेकीकृत्य निवर्तनवयः ६५ इति वर्धयिष्यते।

समुद्रहत्या - इट्टलीं प्रतिगन्तुं नाविकाय अनुमतिः।

नवदिल्ली> धीवरहननविषये अपराधिने नाविकाय स्वशम् इट्टलीं निवर्तयितुं परमोच्चन्यायालयेन अनुमतिः लब्धा। प्रतिभूतिव्यवस्थाः उदारीकृत्य एव इट्टालियन् नाविकाय साल्वत्तोरे गिरोणी नामकाय  निवर्तनानुमतिः दत्ता।
   अस्मिन् विषये इट्टलीभारतयोः मिथः वर्तमाने अधिकारसीमातर्कविषये अन्ताराष्ट्र मध्यस्थता न्यायालयस्य विधिपर्यन्तं स्वदेशे उषितुमेव अनुज्ञा। निबन्धनाचतुष्कमनुसृत्यैव अनुज्ञा दत्ता।