OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 6, 2016

 मुम्बय्यां बस् दुर्घटना - सप्तदश जनाः मृताः।

             
   -  मुंबई-पूने त्वरित देशीयमार्गे  ह्यः संवृत्तायां  मार्गदुर्घटनायां  सप्तदश जना: मृताः , बहवः  व्रणिताः च। मृतेषु त्रयोदश  पुरुषाः चतस्रः वनिताः च अन्तर्भवन्ति। द्वयोः  कार् यानयोः  मध्ये  बस् यानस्य घट्टनेनैव अपघातः संवृत्तः। आघातानन्तरं लोकयानं  समीपस्थं विंशति  मीटर् परिमितं गर्तम् अपतत्। अपघाते व्रणितान् जनान् पनवेलनगरस्थं आतुरालयं प्राविशत्।



नरेन्द्रमोदी पुनरपि अमेरिकायाम्

 वाषिङ्टण्> त्रिदिनसन्दर्शनाय प्रधानमन्त्री नरेन्द्रमोदी १वः अमेरिकां प्राप्स्यति। एतत् मोदिनः चतुर्थम् अमेरिका सन्दर्शनं भवति । सन्दर्शनवेलायां बहुषु सुप्रधान विषयेषु अध्यक्षेण बराक् ओबामेन सह चर्चां करिष्यतीति 'वैट्हौस्'उद्योगस्थाः उक्तवन्त: । सुरक्षा, प्रतिरोधमण्डलस्य सहकरणं ,आर्थिकपुरोगतये श्रद्धेयांशाः, कालावस्थाव्यतियानं इत्यादिषु विषयेषु उभयोः राष्ट्रयोः मध्ये चर्चा भविष्यतीति सूचना । अपि च मोदिनः गतवर्षस्य अमेरिका सन्दर्शनेन द्वयोरपि राष्ट्रयोः परस्परसहकरणे महती पुरोगतिः जाता इति 'वैट्‌हौस्' विशदयति।


सेतुः (DAM)  सुरक्षा : - देशीयस्तरसमितिः आविष्क्रियते

            नवदेहली> राष्ट्रे विद्यमानानां जलसंभरणीनां सुरक्षा क्रमीकरणाय देशीयस्तरीया काचित् समितिः रूपीकर्तुं केन्द्रजलविभवमन्त्रालयस्य पर्यालोचना । एतदर्थं केन्द्रजलविभवमन्त्रालयेन जलसंभरणीसुरक्षानियमपत्रिका आसूत्रिता वर्तते।जलसंभरणी निर्माणं, नदीजलविनियोगे सहकरणम् इत्यादिषु विषयेषु विविधानां राज्यानां मध्ये संभूतानां तर्काणां परिहारः एव नियमपत्रिकायाः मुख्यं लक्ष्यम्। केन्द्रमन्त्रिसभायाः अनुमतेः परं पत्रिकामिमां अनुमतये लोकसभायां समर्पयिष्यति।

राज्यस्तरीया अध्यापक योग्यतापरीक्षा।
उच्चतरविद्यालयेषु अध्यापकनियमनाय सर्वकारैः प्रचाल्यमाना राज्यस्तरीययोग्यतापरीक्षा सेट् जुलाई31तमे भविष्यति ।
विस्तृतविवरणपत्रं पाठ्यक्रमश्च ला ब शा केन्द्राणां अन्तर्जालशृड़्खलासु उपलभ्यन्ते । बिरुदानन्तरबिरुदपरीक्षायां  न्यूनातिन्यूनं 50% अड़्काः अथवा तत्तुल्यता तथा शिक्षकबिरुदं च अनिवार्या योग्यता । दुर्लभविषयेषु बिरुदानन्तरबिरुदधारिणः शिक्षकबिरुदानिवार्यतायाः बहिष्कृताः। एल् टी टी सीं/डी एच् टीं विहाय अन्याः योग्यताः बी एड् तुल्याः इति न परिगण्यन्ते। पट्टिकजाति पट्टिकवर्ग विभागानां बिरुदानन्तरबिरुदे 5% अड़्कानां आश्वासः लभते। अनिवार्ययोग्यतासु एकैवास्ति चेदपि परीक्षा लेखनसाध्या। बिरुदानन्तरबिरुदार्जिताः शिक्षकबिरुदस्य अन्तिमवर्षपठितारः भवेयुः । अन्तिमवर्ष बि बि पठितृणां बी एड् योग्यता अवश्यं भवेत् । नियमानुसारं परीक्षार्थिनः बि बि/ बि एड्  योग्यतायाः प्रमाणपत्रं फलप्रख्यापनदिनाड़्कादेकवर्षाभ्यन्तरे न समर्पयन्ति  चेत् विजयिनत्वेन न परिगणयन्ति ।