OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 30, 2016

भवनरहितेभ्यः प्रधानमन्त्रिणः पद्धतिः।

अनन्तपुरी > प्रधानमन्त्री आवास् योजना इति केन्द्रसर्वकारस्य भवननिर्माण-पद्धतिमनुसृत्‍य राज्येषु विद्यमानेभ्यः भवनरहितेभ्यः भवनानि निर्मातुं केन्द्रसर्वकारस्य अनुज्ञा। केरळे योजानानुसारं ८३८२ भवनानि निर्मीयन्ते ।  २५१.६ कोटि रूप्यकाणां व्ययः भविष्यति।
  तत्र १२५.८कोटि रूप्यकाणि सर्वकारेण दीयते। शिष्टानि रूप्यकाणि राज्यसर्वकारेण नगरसभाभिः गुणभोक्तृभिश्च वोढुं विधास्यन्ते।
  केरळे सप्तनगरेषु एव इमां  पद्धतिं प्रवृत्तिपथमानेष्यति।
  केन्द्रसर्वकारेण गतजूण्मासे आरब्धा पद्धतिरियम्। २०२२ तमे संवत्सरे सर्वेषां नगरवासिनां स्वगृहम् इत्येतदेव अस्याः लक्ष्यः।