OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 7, 2016


प्रधानमन्त्री स्विट्सर्लान्ट् देशे। 

भारतप्रधानमन्त्री नरेन्द्रमोदी खत्तर् सन्दर्शनं पूर्तीकृत्य स्विट्सर्लान्ट् देशं प्राप्तवान्। तत्र हृद्यं स्वीकरणं लब्धम्।
  अलीकधनं भवति राष्ट्रद्वयेनापि अभिमुखीक्रियमाणः विषयः इति प्रधानमन्त्रिणा उक्तम्। द्वयोरपि राष्ट्रयोः सहकारित्वं दृढीकर्तुं क्रियाविधिः स्वीकरिष्यते।
   मोदिवर्यः अद्य अमेरिक्का राष्ट्रपतिना ओबामावर्येण सह मेलिष्यति।


यूरोचषकः दशमदिनाङ्के आरप्स्यते। 
पारीस् - यूरोप्यन् पादकन्दुकस्पर्धाभ्यः शुक्रवासरे शुभारम्भः। फ्रान्स् मध्ये प्रचाल्यमाने यूरोचषके चतुर्विंशति राष्ट्राणि स्पर्धिष्यन्ते।


 विषमयशाकादीनां विपणनं विरुद्ध्य कर्कशक्रियाविधिः केरळस्य मुख्यमन्त्री । 
अनन्तपुरी >केरळेषु विषमयशाकादीनां विक्रयः न अङ्गीक्रियतेति मुख्यमन्त्रिणा पिणराय् विजयेन प्रस्तुतम्। एतदर्थं प्रत्यवेक्षणं कर्कशं करिष्यतीति तेनोक्तम्। 
  कार्षिकमण्डले स्वयंपर्याप्ततां प्राप्तुं पञ्चाशत् सहस्रं हेक्टर् परिमितेषु केदारेष्वपि जैवशाकाकृषिः आरप्स्यते।

 छात्राणां प्रतिवासरीयवार्तावतरणं - अस्मिन् वासरे नम्यालक्ष्मी। 

कोच्ची >विद्यालयीयछात्राणां संस्कृशैक्षिकोत्कर्षस्य अभिवृद्धये  ' सम्प्रतिवार्ता'याः आभिमुख्ये आरब्धे संस्कृतवार्तावतरणकार्यक्रमे अस्मिन् वासरे नम्यालक्ष्मी . आर् वार्ताः अवतारयति। एरणाकुलं जनपदे नायत्तोट् प्रदेशस्थे महाकवि 'जि' स्मारक सर्वकार उच्चतरविद्यालये विद्यार्थिनी भवत्येषा। 

   २०१६ जूण् प्रथमे दिने एव छात्राणां कृते सम्प्रतिवार्तायाः नूतनकार्यक्रमः आरब्धः।