तीव्रवादाय धनसहाय:; पञ्चदशजना: द्रोहिण: इति एन् ऐ ए न्यायालय:।
गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना: द्रोहिण: इति एन् ऐ ए विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे। नवोत्तरद्विसहस्रतमे एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे आगत:। प्राक्तीव्रवादिन: जनप्रतिनिधय: तथा सर्वकारोद्योगस्थाश्च द्रोहिणाम् पट्टिकायाम् सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम् साम्पत्तिकं सर्वं तीव्रवादम् प्रति गच्छति इति ज्ञातवन्त: । सहसंयोजका: हवाला मध्यस्था: सर्वकारोद्योगस्थाश्च मिलित्वा साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स् तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत् लक्षम् रूप्यकाणि द्वयो: न्यायवादयो: कृते एन् ऐ ए स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया: बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, May 25, 2017
Wednesday, May 24, 2017
ब्रिट्टने भीकराक्रमणं - २२ मरणानि।
माञ्चेस्टर्> ब्रिट्टन् राष्ट्रे माञ्चेस्टर् नगरे प्रचलितायां कस्यांश्चन सङ्गीतनिशायां दुरापन्ने आत्मघातिस्फोटने द्वाविंशति जनाः मारिताः। एकोनषष्टिः[५९] व्रणिताः।नगरस्थे बृहत्तमे गृहान्तःस्थे क्रीडाङ्कणे - माञ्चेस्टर् अरीना - अमेरिक्कीयगायिकायाः अरियाने ग्रान्डे इत्यस्यायाः सङ्गीतकार्यक्रमम् आस्वदितुं प्राप्ता एव दुरन्तविधेयाः अभवन्। आक्रमणस्य उत्तरदायित्वम् ऐ एस् संस्थया स्वीकृतम्।
जनानाम् अभिमतज्ञानाय 'जन्की बात'॥
नवदिल्ली> नरेन्द्रमोदी मन्त्रिसभायाः त्रितीयसंवत्सरीय समारोहस्य अनुबन्धतया 'जन् की बात्' नाम जनानां स्वाभिमतप्रकाशनसन्दर्भः आयोक्ष्यते। 'मन की बात' नाम आकाशवाणी कार्यक्रमे प्रधानमन्त्री जनान् प्रति भाषणं करोति। जन की बात कार्यक्रमे जानाः प्रधानमन्त्रिणं प्रति भाषणं कुर्वन्ति इत्येव अस्ति विशेषता। मेय्मासस्य षट्विंशति दिनाङ्कतः जूण् एकादश दिनाङ्क पर्यन्तं आयोक्ष्यमाणेषु कार्यक्रमेषु एव जनेभ्यः अभिमतस्वीकरः। केन्द्रयोजनां प्रति जनानां मतः एव क्रोडीक्रियते। आराष्ट्रं नवशतेषु केन्द्रेषु मोदी फेस्ट् (Making Of Developed India )आयोक्ष्यते ।केन्द्र सर्वकारस्य विकास -पद्धतेः प्रचारः एव लक्ष्यः ।
अस्मिन्मासस्य षट्विंशे (२६) दिने गुवाहत्यां सार्वजनिक सम्मेलने संवत्सरीय-समारोहः प्रधानमन्त्रिणा उद्घाट्यते। अन्येषु राज्येषु राजनैतिक दलाध्यक्षः अमित्षा महाभागेन अघोषस्य उद्घाटनं करिष्ये।
मिरिण्डा शीतलपानीये प्राणी दृष्टा।१५००० रूप्यकाणि नष्टपरिहारम्।
चेन्नै>मिरिण्डा शीतलपानीये मृताः प्राण्यः दृष्टाः। शीतलपानीय निर्मातॄन् चेनै उपभोक्तृन्यायालयेन आज्ञप्तः। दशसहस्रं आवेदकस्स कृते पञ्चसहस्रं मनेवेदनायै च भवतः। धनं षण्मासाभ्यन्तरे दातव्यम्।पी. तलपतिः अस्ति निवेदकः। २०१३ जूलाई मासे २७ दिवाङ्के सः चेन्नै नगरे स्ट्रहनास् वीथ्यां तस्माक् मद्यशालातः मिरिण्डा अक्रीणत्। पानात् पूर्वमेव तेन मृतप्राण्यः अदृष्टाः। तस्मिन्नेव दिने सः उपभोक्तृन्यायालये निवेदनं प्रदत्तम्।
राष्ट्रिय सङ्गोष्ठी संस्कृतभाषायाम्
कोच्ची >केरळेषु संस्कृतशिक्षायाः प्रतिबन्धः सौलभ्यः च इति विषयमधिकृत्य तृदिवसीय-राष्ट्रियसङ्गोष्ठी मेय् मास स्य पञ्चविंशाति दिनाङ्के भविष्यति। भारतस्य विभिन्नदेशेभ्यः विद्वांसः भागभाजाः भविष्यन्ति। कालटी श्री शङ्कराचार्य विश्वविद्यालये एव सङ्गेष्ठ्याः वेदी इति पूर्वनिश्चितः। सप्त विंशति दिने कार्यक्रमस्य पूर्णता भविष्यति।
"एवरस्ट्" शृङ्गस्य कश्चन भाग: भग्न: पतितश्च इति पर्वतारोहका:।
काठ्मण्डु: >"एवरस्ट् शृङ्गात् कश्चन भाग: भग्न: पतितश्चेति पर्वतारोहका:। त्रिपञ्चाशदुत्तरनवदशशततमे प्रथमतया एवरस्ट् आरूढवन्त: एड्मण्ड् हिलरी तथा टेन्सिंह: नोरगे च यत्र पादं स्थापितवन्त: स: भाग: एव विनष्ट:। हिलरीस्टेप् (पाद:) इति स्थानमिदम् आहूयते । पञ्चदशोत्तरद्विसहस्रतमे नेपाले प्रवृत्तभूकम्पात्परमेव भागेयम् विनष्ट: इति पर्वतारोहका: चिन्तयन्ति। एवरस्ट् शृङ्गस्य दक्षिणपूर्वभागे स्थिता द्वादश कि मी दैर्घ्ययुता शिला एव गता एवम्। एतस्य भङ्ग: पूर्वमेव संशयित: तथापि हिमाच्छादितावसंथायाम् स्थिरीकरण-साध्यता नासीत्। ब्रिटिष् पर्यवेक्षक: टीम् मोसेदाले एव हिलरीपाद: विनष्ट:, इति स्थिरीकृतवान्। एतस्य चित्रमपि स: मुखपुस्तके (फेस् बुक्) विनिमीतमपि ।गतवर्षे एव पादोयम् विनष्टमिति आवेदनानि आगतानि। स्थिरीकरणाय च बहुविधश्रमा: प्रचलिता:। समुद्रोपरितलात् नवत्युत्तरसप्तशताधिकअष्ट मीटर् मितौन्नत्ये एव अस्य स्थिति:। तीक्ष्णारोहणप्रदेश: अयम् एवरस्ट् अतिक्रान्तै: अन्तिमम् अतिक्रेतव्य: प्रदेश:। पश्चादवरोहणायापि एतत् स्थानम् नष्टमित्येतत् पर्वतारोहकान् अपघाते पातयेत्। उपरि प्राप्तुं च आरॉहका: कष्टम् अनुभवन्ति। अतिशैत्ये प्रतीक्षा करणीया इति साहचर्यम् च वर्तते।
अटूर् गोपालकृष्णाय जे सि डानियेल् पुरस्कारः।
अनन्तपुरी> मलयालचलनचित्रमण्डले समग्रयोगदानाय दीयमानः २०१६तमसंवत्सरस्य जे सि डानियल् पुरस्काराय अन्ताराष्ट्रप्रसिद्धः कैरलीचलनचित्रनिदेशकः अटूर् गोपालकृष्णः चितः। भारतीयचलच्चित्रमण्डलस्य परमोन्नतपुरस्कारः दादासाहिब् फाल्के पुरस्कारः २००४तमे संवत्सरे अनेन लब्धः आसीत्। तथा पद्मश्री, पद्मभूषणपुरस्काराभ्यां सः आदृतश्च आसीत्।स्वयंवरम्, अनन्तरम्, एलिप्पत्तायं, कोटियेट्टं, मुखामुखं, मतिलुकल्, विधेयन् इत्यादीनि आगोलप्रशस्तिमाप्तानि तस्य प्रमुखानि चलच्चित्राणि भवन्ति।
चीनासीमायां भारतीयव्योमसेनाविमानं भग्नं - अवशिष्टानि दृष्टानि।
नवदिल्ली> भारतीयव्योमसेनायाः सुखोय् - ३० नामकं युद्धविमानं परिशीलन-प्रयाणमध्ये चीनाराष्ट्रस्य सीमोपान्ते अप्रत्यक्षमभवत्। बहुहोराणाम् अन्वेषणान्ते असमराज्यस्य घोरवने अवशिष्टानि दृष्टानि। किन्तु वैमानिकद्वयमधिकृत्य कापि सूचना न लब्धा। असमस्य तेज़पुरात् उड्डयितं विमानं उत्तरदिशि ६० कि मी दूरे चीनायाः सीमासमीपमेव रडार् यन्त्रात् अप्रत्यक्षं जातम्।भारतीयव्योमसेनायाः नष्टभूतं अष्टमं युद्धविमानं भवति इदं सुखोय्। २४० सुखोय् विमानानि भारतव्योमसेनायै सन्ति।
Tuesday, May 23, 2017
विकिरण-अपघातस्य परिहारः उपलब्धः॥
बाह्याकाशयात्रासु मनुजं प्राणवेदनया हन्यमान: कश्चन अपघात: गुप्त: आसीत् एतावत्कालं यावत् ।। न केवलम् मनुजं किन्तु पेटकानि तथा उपग्रहांश्च विकिरणम् ( रेडियेषन् ) नामकोयं भीकर: ग्रसति स्म । सूर्यात् तथा क्षीरपथस्य अज्ञातस्रोतभ्य: विकिरणस्य प्रभव: । मनुष्यचर्मसु एतस्य प्रभावेण अर्बुदरोग: भवितुमर्हति । विकिरणमेतत् अधीनं कर्तुम् मानव: वर्षेभ्य: प्रयत्नं कुर्वन्नस्ति । भूमौ एतस्य कृत्रिमसृजनेन प्रतिपर्यवेक्षणे कोटीनां लाभ: भवेत् । तदपि न , विकिरणातिप्रसरयुक्के कुजे वाससाध्यतापद्धतिषु निर्णायकं स्यात् एतत् । किमपि वा भवतु पद्धतिना विजय: दृष्ट: । बाह्याकाशदुरन्तकारकान् विकिरणप्रवाहान् गवेषका: परीक्षणशालायां सृष्टवन्त: । स्कोटलन्टे स्ट्रात् क्लैड् सर्वकलाशासाया: भौतिकशास्त्रविभागेन सहायकमुपकरणं च निर्मितम् । लेसर् प्लास्मा वेगनियन्त्रकै: एतत् प्रवर्तते । सामान्यपरीक्षणशालासु एवं कृते अत्यूर्जप्रसरणयुक्तानि विकिरणानि अनियन्त्रणसाध्यानि बहि: स्फुरन्ति । इङ्ग्लेण्ड् देशस्थलेसर् - प्लास्माश्रितसेन्ट्रल् लेसर् परीक्षणशालायां परीक्षणसौकर्ये प्राप्ते निर्णायकपद्धत्या विजय: प्राप्त: । भूम्या: बाह्यं कान्तिकमण्डलम् अस्मान् बाह्याकाशविकिरणेभ्य: संरक्षन्ते । अन्तरिक्षं च त्रिपादमितलोहपालीसमानसुरक्षां च अस्मभ्यं यच्छति । भूमौ प्रत्येक: नर: प्रतिदिनं प्राय: दश (१०) मैक्रोसीवर्ट् ( ०.००००१) विकिरणं बाधते । बाह्याकाशयात्रिकेन ० .६६ ( पूज्यं दशांशं षट् षट् ) विकिरणानि बाधते तच्च मरणकारणमपि स्यात् । चन्द्रे कान्तिकमण्डलं दुर्बलम् । कुजे निर्वीर्यप्रायं च । साहचर्येस्मिन् विक्षेपणात्पूर्वं पेटकोपग्रहनिर्माणेषु एतत् सहायकं स्यात्Monday, May 22, 2017
सर्वेषां विप्रतिपत्तिम् उद्पाद्य पुनरपि उत्तरकोरियया
नूतनाणवास्त्रम् परीक्षितम् ।
सोल् > अमरीकां तथा लोकराष्ट्राणि आक्रोश्य उत्तरकोरियया पुनरपि आणवास्त्रपरीक्षणं कृतम् । रविवारे मध्याह्नात्परमेव अज्ञातपरीक्षणं कृतमिति दक्षिणकोरियया ज्ञापितम् । पुच्याङ्त: नूतनम् मध्यदूरबालिस्टिक् आणवास्त्रम् परीक्षितम् ।।
अतिवेगान्तर्जालप्राप्त्यै भारतेन त्रयः उपग्रहाः विक्षिप्यन्ते।
नवदिल्ली>अन्तर्जालोपयोगे अमरीकाम् उल्लङ्घ्य लोके द्वितीयं राष्ट्रम् अभवत् भारतम् , परं तस्मात् अतिवेगान्तर्जालप्राप्त्यै त्रीन् उपग्रहान् विक्षेप्तुम् भारतं सिद्धतां करोति। आगामि अष्टादश ( १८ ) मासाभ्यन्तरे ऐ एस् आर् ओ त्रीन् वार्ताविनिमयोपग्रहान् विक्षेप्स्यति। तत्र प्रथमोपग्रहं जी साट् - नवदश (१९) जूण्मासे विक्षेप्स्यति। जी एस् एल् वी एम् के - ३ , जी साट् - नवदशम् भ्रमणपथम् प्रापयेत्। तद्देशीयनिर्मित-क्रयोजनिकेन्ञ्जिन् एव जी एस् एल् वी एम् के - त्रीणि मध्ये उपयुङ्क्ते। चत्वारि टण् मितभारयुक्तान् उपग्रहान् विक्षेप्तुम् एतेन नूतनबाह्याकाशवाहनेन शक्यते। ऐ एस् आर् ओ संस्थाया: अग्रिमपरम्परा विक्षेपणवाहनत्वेन जी एस् एल् वी एम् के
मन् की बात् कार्यक्रमस्य बृहती अनुकूलता।
नवदेहली- प्रधानमन्त्रिणा नरेन्द्रमोदिना आकाशवाणी द्वारा क्रियमाणस्य मन की बात् कार्यक्रमस्य प्रक्षेपणं १५० राष्ट्रेषु भवतीति आकाशवाणी निदेशकः अवदत्। विदेशराष्ट्राणां भारतीयेभ्यः अस्य कार्यक्रमस्य बृहती अनुकूलता लभ्यते इति सः अयोजयत्।प्रधानमन्त्रिणः हिन्दीभाषायाः स्थाने तत्समये आंगलभाषया ,रषिया भाषाया,फ्रन्च् भाषया, उरुदू भाषया, चैनीस् भाषया च तस्य अनुवादः दीयते। विश्वस्य सर्वतः जनानां प्रधानमन्त्रिणा सह बन्धं स्थापितुं अवसरः लभ्यते। अरब् राष्ट्रेभ्यः आस्त्रेलियातः,न्यूसिलाण्ट्तः, कानडातः च कार्यक्रमस्य अस्य अनुकूलभावानि लभ्यन्तेति आकाशवाणी निदेशकः अवदत्।
नव दिल्ली > जम्मूकश्मीरस्य नौगामक्षेत्रे नियंत्रणरेखायां निकषा प्रवृत्ते संघर्षे सुरक्षाबलैः आतंकिचतुष्टयं व्यापादितम् । संघर्षे सैन्यभटत्रयं वीरत्वंगतम् । सैन्यबलैः आतंकवादिनाम् अवैधप्रवेशनिराकरणानन्तरं संघर्षः प्रारब्धः । स्रोतोभिः विज्ञापितं यत् प्रतिसंघर्षः इदानीमपि प्रवर्तमानं वर्तते |
इरानं विरुद्ध्य ड्रम्पः - आतङ्कवादिने आयुध: प्रयोगशिक्षा च दीयते ।
रियाद्> आतङ्कवादान् प्रतिरोद्धुं माहम्मदीयराष्ट्राणि नेतृत्वं स्वीकुर्येयुः इति यु ए स् राष्ट्रपतिः डोणाल्ड् ट्रम्पः अवदत्। सौदिराष्ट्रे रियाद् नगरे भाषमाणः आसीत् सः। सौदिराष्ट्रेण सह नूतनः संबन्ध आरब्धः। मण्डलेषु तथा लोकेषु सर्वत्र शान्ति भवतु इति अभिलाषः अस्ति इति सः अयोजयत्।इरानं विमृश्य आसीत् ट्रम्पस्य भाषणम्। मध्य पूर्वदेशस्य अस्वस्थतायाः उत्तरदायित्वम् इरानस्य एव भवति। एते भीकरान् प्रति आयुधः आयोधनशिक्षा च दास्यति। सिरियायां बाषर् अल्षादेन कृतानि विद्रोहकर्माणि वाक्याधीतानि। असदस्य विद्रोहप्रवर्तनेषु इरानस्य भागभाक्त्वमस्तीति। ट्रम्पः अवदत्। यू एस् आरभ्य भारतपर्यन्तं , ओस्ट्रेलियादारभ्य रष्याराष्ट्रपर्यन्तं सर्वे आतङ्कवादस्य दुर्फलानि सोढवन्तः सन्ति। अतः युष्माकं विशुद्धधरातः तान् निष्कासितव्याः इत्यपि ट्रम्पः अभवत्।
हतभाग्यानाम् अर्धसैनिकानां परिवारेभ्यः कोटि रूप्यकाणि।
नवदिल्ली>संघट्टनेषु बलिदानित्वं प्राप्यमाणानां केन्द्रसायुध आरक्षकसेनाङ्गानां परिवारेभ्यः एक कोटि रूप्यकाणि नष्टपरिहाररूपेण दास्यन्तेति गृहमन्त्रिणा राजनाथसिंहेन उद्घुष्टम्। चीनाराष्ट्रेण सह सीमांशभागिनां पञ्चानां राज्यानां मुख्यमन्त्रिभ्यः साकं गाङ्टोके कृते सुरक्षावलोकनोपवेशनानन्तरं भाषमाणः आसीत् राजनाथसिंहः।Sunday, May 21, 2017
सुसिद्धतायै व्योमसेना निर्दिष्टा।
नवदिल्ली > भारतस्य सीमायां विभीषिकायां वर्तमानायां व्योमसेनाङ्गाः सर्वसज्जाः भवन्तु इति सेनाधिपस्य एयर् चीफ् मार्षल् बि एस् धनोवा इत्यस्य आदेशः। यदा निर्देशः लभते तदैव कर्तव्यपालनाय सिद्धाः भवेयुः, तदर्थं परिशीलनं च पूर्तीकरणीयम् इति द्वादशसहस्रं व्योमसेनाधिकारिणां कृते पृथक् पृथक् प्रेषितैः लेखैः निर्दिष्टम्।
वर्णाभः ऊट्टि पुष्पोत्सवः प्रारब्धः।
ऊट्टी>दक्षिणभारतस्य सुप्रसिद्धे ऊट्टी विनोदसञ्चारकेन्द्रे अस्य संवत्सरस्य पुष्पमेला समारब्धा। सम्पूर्णं सदः साक्षीकृत्य मुख्यमन्त्री एडप्पाटी के .पळनिसामी वनसपतिसस्योद्याने प्रचाल्यमानामिमां मेलामुद्घाटनं कृतवान्।लक्षत्रयाधिकैः विविधैः सूनैः समृद्धे बोट्टाणिक्कल् गार्डन् मध्ये लक्षाधिकैः कुसुमैः विरचितं पल्लवराजशासनकालीनः महाबलिपुरं शिल्प एव अस्य कुसुमोत्सवस्य उत्कृष्टमाकर्षणम्। त्रिशत्पादपरिमितम् उन्नतः भवत्ययं शिल्पः। त्रिसहस्रं पुष्पैः विरचितः चातकः , बहुवर्णकुसुमैः विकसिताः मयूराः , रङ्गोली इत्यादयः सन्दर्शकान् आकर्षन्ति।
विष्णुप्रयागे भूपातः, तीर्थाटकानां दुर्दशा।
प्रयागः > उत्तराखण्डराज्ये प्रसिद्धे विष्णुप्रयागनामके तीर्थस्थानमार्गे तत्र तत्र सञ्जातेन शक्तेन भूपातेन सहस्रशः तीर्थाटकाः दुर्दशायां पतिताः। गतागतं स्थगितम्। विविधस्थानेषु १५,०००परं तीर्थाटकाः आशङ्कायां वर्तन्ते। किन्तु व्योममार्गेण साहाय्यमानीय तीर्थाटकानाम् आशङ्कामपाकर्तुं यतामहे इति अधिकृतैः उक्तम्।
समान्तरप्रपञ्चस्य दृष्टान्त:।
नेके प्रपञ्चा: वर्तन्ते वा ??? प्रश्नोयं बहुकालेभ्य: गवेषकानां कष्टं जनयति । समान्तरप्रपञ्चा: ( मल्टि वेल्ड्स् ) भवेयुरिति शास्त्रज्ञा: अपि अभिप्रयन्ति । इदानीम् इदम्प्रथमतया समान्तरप्रपञ्चस्य दृष्टान्त: व्यक्त : इति ब्रिटण् राष्ट्रस्य राजकीयज्योतिश्शास्त्रसमाज: ( रोयल् अस्ट्रोणमिकल् सोसैटी ) अधीशत्ववादम् उन्नयति । प्रपञ्चस्य विदूरमेखलायां दृष्टिपथमागत: अशीत्यधिकैकशतम् ( १८० ) विशाल: अतिशैत्यप्रदेश: एव इतरप्रपञ्चस्य दृष्टान्तत्वेन गवेषकै: सूच्यते ।पञ्चदशोत्तरद्विसहस्रतमे (२०१५ ) वर्षे दृष्टभूतायाम् अस्याम् सामान्येन भवितव्या:उपायुता: नक्षत्रसमूहा: न्यूना: इति पठनेषु व्यक्तं प्रतिभाति । प्रपञ्चेतरभागान् अपेक्ष्य विंशति: प्रतिशतं द्रव्यमपि अत्र ऊनमेव । प्रतिभासस्यास्य विशदीकरणं दातुं गवेषका: असमर्था: । तथा अन्य: कश्चन प्रपञ्च: अस्माकम् प्रपञ्चम् अतिक्रम्यारूढ: स्यादित्यपि अनुमीयते । नक्षत्रसमूहान् द्रव्याणि च समीपप्रपञ्च: अगिलत् इति सार: । अस्माकम् प्रपञ्च: कोटिश: विद्यमानसमान्तरप्रपञ्चै: सह घट्टनात्परं गिलनस्य अवशिष्टं स्यात् इयं शीतमेखलेति गवेषणस्य नेतृस्थानीय: ड्यूर्हाम् सर्वकलाशालाया: ज्योतिश्शास्त्रविभागमेधावी प्रोफ . टोम् षान्क्स् अभिप्रैतवान् । कोरनल् सर्वकलाशालाया: आर्कैव् ओर्ग् सैट् मध्ये पठनम् प्रसिद्धीकृतं वर्तते । स्टीफन् होकिंङ्स् प्रभृतय: विख्याता: भौतिकशास्त्रज्ञा:अन्यप्रपञ्चा: भवेयुरिति पूर्वमेव उक्तवन्त: । तत्रत्या: भौतिकनियमा: अस्मत्त: भिन्नाश्च भवेयुरिति सूचयन्ति । एकस्मात् अपरप्रपञ्चं प्रति प्रवेशनमपि असाध्यमिति निगमनम् ।
वातावरणे व्यत्ययः ; भूतलं गलिष्यति वा समुद्र:?
वातावरणे आगच्छत् लघु परिवर्तनमपि प्रकृत्याम् बृहत् प्रतिफलनानि कुर्यात् । वातावरणव्यतियानम् अधिकाधिकं रूक्षतरं दृश्यमानसाहचर्येस्मिन् प्रकृत्यामपि एतस्य अनुरणनम् दृष्टिसाध्यमेव । समुद्रजलोपरितलमानके लघु वर्धनमपि लोके सर्वत्र समुद्रजलस्य तीरदेशागिलनस्य तथा समुद्राक्रमणस्य च तीव्रतां द्विगुणितं वर्धयेदिति नूतनपठनानि । वातावरणव्यतियानस्य भागतया समुद्रतलोत्प्लव: , तेन च रूक्षवीच्य: तथा समुद्रक्षोभा: च सम्भवन्तीति गवेषका: सूचयन्ति । आगोलतापनात् हिमफलकानि द्रवीकृतानि , समुद्रजलस्य उष्णता वर्धते परं समुद्रजलोपरितलम् प्रतिवर्षं चत्वारि मिल्लीमीटर् मितमुन्नतं च समपद्यते । वर्तमानसाहचर्यानुसारं वर्षाणि यावत् प्रतिभासोयम् अनुवर्तते। प्रथमदृष्ट्या लघुमानेन समुद्रजलवर्धनम् इति भासते तथापि प्रत्याघात: महान् भविष्यति इति गवेषका: पूर्वसूचनां यच्छन्ति । समुद्रजलोपरितलव्यतियानं महावातानाम् उन्नतावृत्तियुक्तवीचीनां च कारणं स्यात् । समुद्राक्रमणं प्रतिरोद्धुं सामान्यप्रतिरोधमार्गा: अपर्याप्ता: भवेयु: । भूमध्यरेखासमीपप्रदेशेषु समुद्राक्रमणरूक्षता अधिका अनुभूता भवेत् । आफ्रिक्का , अमरीकाभूखण्डस्य दाक्षिणात्या: प्रदेशा: , दक्षिणपूर्वेष्या , यूरोपस्य अटलान्डिकतीरम् , अमरीकाया: पूर्वतीरम् एतेषु स्थानेषु शक्तानि प्रतिफलनानि भवेयु: - गवेषका: अभिप्रयन्ति । शास्त्रावेदनजेर्णल् ( सयन्टिफिक् रिपोर्ट्स् जेर्णल् ) मध्ये एतत्सम्बद्धपठनरेखा: प्रसिद्धीकृता: ।Saturday, May 20, 2017
पण्यवस्तुसेवनकरपरिष्करणं प्रवृत्तिपथे।
श्रीनगरम् >स्वातन्त्र्यानन्तरं भारते सम्भूतं बृहत्तमं करपरिष्करणं प्रवृत्तिपथमानेतुं सिद्धमभवत्। श्रीनगरे दिनद्वयेन सम्पन्ने पण्यवस्तु सेवन करसमित्याः [जि एस् टि] उपवेशने एतदधिकृत्य समर्पितेभ्यः प्रायेण सर्वेभ्यः निर्देशेभ्यः अङ्गीकारः लब्धः। शैक्षिक - स्वास्थ्य मण्डलानि पूर्णतया शुल्कविमुक्तानि अवस्थापितानि। केन्द्रवित्तमन्त्रिणः अरुण् जेय्ट् ली वर्यस्य आध्यक्षे जम्मू काश्मीरस्य श्रीनगरे संवृत्ते मेलने आसीदयं निर्णयः।प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टविंशति इति राजस्वविधानं चतुर्धा अस्ति। आडम्बरवस्तूनां धूमपत्रोत्पन्नानां कृते शुल्केन सह "सेस्स्" अपि विधास्यति।
Friday, May 19, 2017
केन्द्रमन्त्री अनिल् दवे दिवंगतः।
नवदिल्ली> भारतस्य वनं-पारिस्थितिकमन्त्री अनिल् माधव दवे [६०] हृद्रोगबाधया दिल्ली एयिम्स् आतुरालये दिवंगतः। अन्त्यकर्माणि शुक्रवासरे प्रभाते दशवादने मध्यप्रदेशस्थे बान्द्राबान् नामके जन्मग्रामे संवर्तन्ते।
२००९ आरभ्य मध्यप्रदेशतः राज्यसभाङ्गः भवति अनिल् दवे। जूलाई मासे सम्पन्ने मन्त्रिसभापुनःसंघटनायां स्वतन्त्रोत्तरदायित्वयुक्तः परिस्थितिमनत्री अभवत्।
कुलभूषणस्य मृत्युदण्डनम् अवष्टम्भितम्।
हेग् >गुप्ताचारं कृतमित्यारोप्य बलूचिस्थाने गृहीतस्य
भूतपूर्वभारतीय-नौसेनाभटस्य कुलभूषणयादवस्य पाकिस्थानीय-सैनिकन्यायालयेन
विहितं मृत्युदण्डनं अन्ताराष्ट्रनीतिपीठेन अवष्टम्भितम्। हेगस्थस्य अन्ताराष्ट्रिय-नीतिन्यायालयस्य अध्यक्षेण रोणि अब्रहामेन
अभिव्याप्तस्य एकादशाङ्गयुक्तनीतिपीठस्यैवायं विधिः। कुलभूषणस्य
मृत्युदण्डनं यावच्छीघ्रं निरुद्धव्यमिति भारतेन निवेदितमासीत्। भारताय
वरिष्ठः न्यायवादी हरीष् साल्वे वर्यः उपस्थितः। प्रतिराष्ट्रं
सार्धैकहोरां यावत् वादप्रतिवादाय समयः लब्धः आसीत्। राष्ट्रद्वयस्यापि
न्यायवादं श्रुत्वा विधिः प्रस्तुतः। महाराष्ट्रस्य साङ्ली स्वदेशीयः भवति कुलभूषणः। मुम्बय्यां पोवायिल् प्रदेशे सकुटुम्बं वसन्नस्ति।
भीमाकारं उपग्रहविक्षेपण वाहनम् आगामिनि मासे बाह्याकाशं गमिष्यति।
चेनै>ऐ एस् आर् ओ द्वारा इतः पर्यन्तेषु निर्मितेषु भीमाकारं उपग्रहविक्षेपण वाहनं विक्षेपणाय सज्जं जातम्। ६४० डण् भारवदिदं विक्षेपवाहनम्। बृहदुपग्राहाणां विक्षेपणाय बृहदानां विक्षेपणवाहनानां आवश्यकता अस्ति। भारतेन स्वयमेव निर्मितं अतिशीत यन्त्रमस्ति अस्य विशेषता। द्वादश मासस्य प्रयत्नस्य फलमस्ति एतत् विमानम्। श्रीहरिकोट्टातः अस्ति अस्य विक्षेपणम्। प्राथमिक कार्याणि सर्वाणि जातानि।जिसाट्ट् १९ उपग्रहं एतत् द्वारा बहिराकाशं प्रेषिष्यति।अस्य भारं ३.२ टण् अस्ति। क्रमेण अस्य भारवाहक क्षमतां वर्धिष्यति। उपग्रहस्य कालपरिधिः १६ संवत्सराणि भवन्ति।
Subscribe to:
Comments (Atom)



