OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 22, 2017

मन् की बात् कार्यक्रमस्य बृहती अनुकूलता।
नवदेहली- प्रधानमन्त्रिणा नरेन्द्रमोदिना आकाशवाणी द्वारा क्रियमाणस्य मन की बात् कार्यक्रमस्य प्रक्षेपणं १५० राष्ट्रेषु भवतीति आकाशवाणी निदेशकः अवदत्। विदेशराष्ट्राणां भारतीयेभ्यः अस्य कार्यक्रमस्य बृहती अनुकूलता लभ्यते इति सः अयोजयत्।
प्रधानमन्त्रिणः हिन्दीभाषायाः स्थाने तत्समये आंगलभाषया ,रषिया भाषाया,फ्रन्च् भाषया, उरुदू भाषया, चैनीस् भाषया च तस्य अनुवादः दीयते। विश्वस्य सर्वतः जनानां प्रधानमन्त्रिणा सह बन्धं स्थापितुं अवसरः लभ्यते। अरब् राष्ट्रेभ्यः आस्त्रेलियातः,न्यूसिलाण्ट्तः, कानडातः च कार्यक्रमस्य अस्य अनुकूलभावानि लभ्यन्तेति आकाशवाणी निदेशकः अवदत्।