OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 20, 2017

पण्यवस्तुसेवनकरपरिष्करणं प्रवृत्तिपथे।
श्रीनगरम् >स्वातन्त्र्यानन्तरं भारते सम्भूतं बृहत्तमं करपरिष्करणं प्रवृत्तिपथमानेतुं सिद्धमभवत्। श्रीनगरे दिनद्वयेन सम्पन्ने पण्यवस्तु सेवन करसमित्याः [जि एस् टि] उपवेशने एतदधिकृत्य समर्पितेभ्यः प्रायेण सर्वेभ्यः निर्देशेभ्यः अङ्गीकारः लब्धः। शैक्षिक - स्वास्थ्य मण्डलानि पूर्णतया शुल्कविमुक्तानि अवस्थापितानि। केन्द्रवित्तमन्त्रिणः अरुण् जेय्ट्  ली वर्यस्य आध्यक्षे जम्मू काश्मीरस्य श्रीनगरे संवृत्ते मेलने आसीदयं निर्णयः।
    प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टविंशति इति राजस्वविधानं चतुर्धा अस्ति। आडम्बरवस्तूनां धूमपत्रोत्पन्नानां कृते शुल्केन सह "सेस्स्" अपि विधास्यति।