OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 19, 2017

 कुलभूषणस्य मृत्युदण्डनम् अवष्टम्भितम्।
हेग् >गुप्ताचारं कृतमित्यारोप्य बलूचिस्थाने गृहीतस्य भूतपूर्वभारतीय-नौसेनाभटस्य कुलभूषणयादवस्य पाकिस्थानीय-सैनिकन्यायालयेन विहितं मृत्युदण्डनं अन्ताराष्ट्रनीतिपीठेन अवष्टम्भितम्। हेगस्थस्य अन्ताराष्ट्रिय-नीतिन्यायालयस्य अध्यक्षेण रोणि अब्रहामेन अभिव्याप्तस्य एकादशाङ्गयुक्तनीतिपीठस्यैवायं विधिः। कुलभूषणस्य मृत्युदण्डनं यावच्छीघ्रं निरुद्धव्यमिति भारतेन निवेदितमासीत्। भारताय वरिष्ठः न्यायवादी हरीष् साल्वे वर्यः उपस्थितः। प्रतिराष्ट्रं सार्धैकहोरां यावत् वादप्रतिवादाय समयः लब्धः आसीत्। राष्ट्रद्वयस्यापि न्यायवादं श्रुत्वा विधिः प्रस्तुतः।  महाराष्ट्रस्य साङ्ली स्वदेशीयः भवति कुलभूषणः। मुम्बय्यां पोवायिल् प्रदेशे सकुटुम्बं वसन्नस्ति।