मायनागरिकता- २
यात्रा - डा जी. गङ्गाधरन् नायरः
ग्वातिमालायां फूएगो नाम ज्वालामुखी। एषा इदानीमपि लावाम् उत्क्षिपति । फूएगो इत्यस्य अग्निः इत्यर्थः।
अमेरिकया सह ७९९५ कोटि रूप्यकाणां राष्ट्ररक्षासन्धिः।
नवदिल्ली> नौसेनायाः अत्याधुनिकानाम् MH 60 R इति उदग्रयानानां परिपालनाय साङ्केतिकपरिनिर्वहणाय च पञ्चवर्षाणि यावत् यू एस् राष्ट्रस्य साहाय्यं दृढीकर्तुं उभाभ्यां राष्ट्राभ्यां ७९९५ कोटि रूप्यकाणां सन्धिः हस्ताक्षरीकृतः। उदग्रयानानां सुगमप्रवर्तनाय समग्रः भाण्डः [package] भवत्येषः।
सन्ध्यनुसारं २४ उदग्रयानानि भारताय लप्स्यन्ते। यन्त्रोपकरणानां लभ्यता, दोषपरिहाराय साङ्केतिकसाहाय्यं, सेवकानां परिशीलनम् इत्यादिषु कार्येषु अमेरिकायाः साह्यं लप्स्यते।
मायनागरिकता
ग्वातिमालायां तिकाल् नाम वनप्रदेशे देवालयस्य अवशेषः। प्राचीनभारतीय-नागरिकतासमाना मायनागरिकता क्रिस्तो: पूर्वँ 2500तमवर्षत: क्रिस्तोः परं 800तमवर्षपर्यन्तं प्रचलिता आसीत् । मायनागरिकतायां याग: आसीत् । यूरोपीयैः अधिनिवेशकै: एषा नागरिकता ध्वस्ता । एताम् अधिकृत्य अपवादाः अपि प्रचारिताः स्वकीयदुष्कर्म छादयितुम् ।
(गुरुवरस्य गंगा धरन् नायर् वर्यस्य मुख(fb)पुस्तिकातः संग्रहीतः)
एष्या पवर् इन्टक्स् क्रमे जापानम् अतिक्रम्य भारतं तृतीयस्थानं प्राप्तम् ।
नवदिल्ली> 'ओपरेषन् सिन्दूर्' प्रक्रमानन्तरम् आर्थिक- सैनिकशक्तेः प्रभावेन एष्य पवर् इन्टक्स् २०२५ मध्ये जातायां गणनायां भारतं तृतीयस्थानं प्राप्तम्। राष्य पसफिक् प्रक्रमेषु राष्ट्राणां शक्तिः अवगन्तुम् उपयुज्यमानः सुविधा भवति एष्या पवर् इन्टक्स्। लोवि इन्स्टिट्यूट् द्वारा प्रतिसंवत्सरम् इयं इन्ट्क्स् प्रकाशयति। तदर्थं इयं संस्था २५ राष्ट्रान् एतस्याः विवरणस्य प्राप्त्यर्थं सर्वेक्षणं कुर्वन्ति।
श्रीलङ्कायां चक्रवातः, प्रलयः - ५६ मरणानि।
कोलम्बो> श्रीलङ्राराष्ट्रे गतदिने जाते 'डिट् वा' नामके भीषणचक्रवाते प्रलये च ५६ जनाः मृताः। २५ जनाः तिरोभूताः इति प्राथमिकसूचना। राष्ट्रे बहुत्र दुरापन्ने जलोपप्लवे, मृत्पाते, चक्रवातापाते च महान्ति कष्टनष्टानि जातानि।
बहूनि भवनानि विशीर्णानि। सर्वकारकार्यालयाः, विद्यालयाः, रेल् यानसेवाः इत्यादयः अल्पकालिकेन स्थगिताः। रक्षाप्रवर्तनाय सेना विन्यस्ता। दुरितसमाश्वासप्रवर्तनानि आरब्धानि च।
इम्रान् खानः सुरक्षितः इति कारागृहाधिकारिणः।.jpeg)
प्रधानमन्त्रिपदकाले इमरान खानः।
लाहोरं> कारागृहे बद्धः पाकिस्थानस्य पूर्वभूतप्रधानमन्त्री इम्रान् खानः मृतः इति वार्ता अडियाला कारागृहाधिकारिभिः निरस्ता। सः कारागृहे पूर्णस्वास्थ्येन सुखेन वसतीति कारागृहाधिकारिभिः उक्तम्। तोषखाना भ्रष्टाचारप्रकरणे १४ वर्षाणि कारागृहवासेन दण्डितः सः २०२३ आगस्टमासतः रावल्पिण्टि मध्ये अडियाला इत्यत्र कारागृहे अस्ति।
'विधिपरिष्करणं वर्धते' इत्यस्मिन् आशङ्कां दुःखं च प्रकाश्य सर्वोच्चन्यायालयः।
नवदिल्ली> सर्वोच्चन्यायालयस्य केनचन नीतिपीठेन विहितः विधिः इतरेण पीठेन अवगण्य परिष्क्रियते अथवा परित्यज्य अतिक्रामते इति शीलं वर्धते इति सर्वोच्चन्यायालयेन निरीक्षितम्। न्यायाधिपौ दीपाङ्कर दत्ता,अगस्टिन् जोर्ज् मसीह् इत्येतयोः नीतिपीठ एव अस्मिन् दुश्शीले आशङ्कां व्यथां च प्राकटयत्। नियममण्डले नीतिपीठस्येदं निरीक्षणं नूतनचर्चायाः प्रारम्भं करिष्यतीति सूच्यते।
विधेयकप्रकरणे राज्यपालानां राष्ट्रपतेः च कालक्रमनिर्णयः, वीथीशुनकानां पुनरधिवासः, दिल्लीनगरे स्फोटकनिरोधनं, परियोजनासु पूर्वकालतः पारिस्थितिकानुज्ञा इत्यादिषु प्रकरणेषु सर्वोच्चनीतिपीठस्य प्राथमिकविधिः इतरेण नीतिपीठेन परिष्कृतः अतिक्रामितः वा कृतः। एतत् शीलं तु राष्ट्रसंविधानस्य १४१ तमे अनुच्छेदे निक्षिप्तस्य सर्वोच्चन्यायालयस्य परमाधिकारस्य हानिकराय भविष्यतीति अनेन नीतिपीठेन सूचितम्।
अभिनेता धर्मेन्द्रः दिवंगतः।
मुम्बई> हिन्दी चलच्चित्रमण्डले अतिश्रेष्ठः अभिनेता धर्मेन्द्रः [९०] सोमवासरे प्रभाते दिवंगतः। १९६० वर्षादारभ्य 'बोलिवुड्' इति हिन्दीचलच्चित्रास्वादकानां हृदयनायकः आसीत् धर्मेन्द्रवर्यः। सामाजिकदर्शनं विलापयात्रां वा विना सोमवासरे एव अन्त्यकर्माणि विधत्तानि।
'षोले' नामके हिन्दी चलच्चित्रे नायकरूपेण अभिनयं कृतवान् धर्मेन्द्रवर्यः षट्दशकाणि यावत् ३०० अधिकेषु चलच्चित्रेषु स्वनटनपाटवं प्रदर्शितवान्। पञ्चाबराज्ये लुधियानजनपदे नस्रालिग्रामे कस्मिंश्चित् कृषकपरिवारे आसीदस्य जन्म। धीरनायकरूपेण [Action Hero] प्रणयनायकरूपेण च युगपत् आराधकानां हृदये सः वीरप्रतिष्ठां सम्पादितवान्।
२००४ तमे वर्षे धर्मेन्द्रवर्यः बीकानेर मण्डलात् भाजपादलस्य प्रतिनिधिरूपेण लोकसभां प्राप्तवान्। २०१२ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः।
केरळ-संस्कृत-अकादम्या: पुरस्काराः समर्पिताः।
केन्द्रीयसंस्कृत-विश्वविद्यालयस्य गुरुवायूर्-केन्द्रे आयोजितः पुरस्कारसमारोहः कलामण्डल-कल्पित-विश्वविद्यालयस्य कुलपतिः डा. बी. अनन्तकृष्णः उद्घाटनं कृतवान् । अनन्तरं पुरस्कारविजेतृभ्यः पुरस्कारान् प्रदत्तवान्। अकादम्याः अध्यक्षः प्रो. के. टी. माधवः सभायां अध्यक्षः आसीत्। प्रो. पी.सी. मुरलीमाधवः पुरस्कारं प्राप्तवतः परिचायनम् अकरोत्।
संस्कृत-प्रणयभाजनं पी.टी. कुर्याक्कोस् एन्डोव्मेण्ट-पुरस्कारम् (₹२५०००, प्रशस्तिपत्रं, फलकम्) डा. वी. रामकृष्णभट्टाय प्रदत्तम्। अकादमि-संस्कृतिपुरस्कारः डा. सी. राजेन्द्राय, पी.सी. वासुदेवन् इळयत् स्मारक-साहितिप्रभा-पुरस्कारः डा. वी.आर्. मुरलीधराय, न्यायभूषणं रामन् नम्ब्यार् स्मारक-पुरस्कारः डा. एस्.एन्. महेष् बाबु महोदयाय च प्राप्ताः (₹१००००, फलकम्, प्रशस्तिपत्रं च)।
गुरुवायूर-देवस्वम् अध्यक्षः डा. वी.के. विजयन् प्रशस्तिपत्रस्य सुवाचनम् अकरोत्। अकादम्याः आस्थानमन्दिर-निधिः डा. पी. नारायणन् नम्पूतिरिणा अध्यक्षाय प्रो. के.टी. माधवाय समर्पिता।सभायां प्रो. के.के. षैनः स्वागतं , डा. के.ए. रवीन्द्रः धन्यवादं च प्रकटितवन्तौ। डा. पी.वी. कृष्णन् नायरः पी.टी. कुर्याक्कोस् स्मरण-प्रवचनं कृतवान्। डा. ई.आर्. नारायणः, एन्. राजगोपालः, डा. वी. रामकृष्णभट्टः, डा. वी.आर्. मुरलीधरः, डा. एस्.एन्. महेष् बाबुः च भाषणानि अकुर्वन्।
अयोध्या पूर्णा अभवत्। अद्य पवित्रं ध्वजारोहणं सम्पन्नम्।
अयोध्यायां श्रीराममन्दिरस्य निर्माणस्य पूर्णतां विज्ञाप्य अद्य ध्वजारोहणं सम्पन्नम् अभवत्। ५०० संवत्सराणि यावत् दीर्घितस्य पुण्ययज्ञस्य परिसमाप्तिः अभवत् इति प्रधानमन्त्री नरेन्द्रमोदी ध्वजारोहणं कृत्वानन्तरम् अवदत्। आर् एस् एस् सर-संघचालकस्य मोहन भागवतस्य तथा यू पी मुख्यमन्त्री योगी आदित्यनाथस्य सान्निध्ये आसीत् अयं पुण्यकर्म। देवालयस्य १९१ पादमिते उन्नते गोपुरे १० पादमिते आयते २० पादमिते दीर्घिते ध्वजः एव संस्थापितः।
के एल् राहुलः नायकः।
मुम्बई> दक्षिणाफ्रिकया सह एकदिनक्रिकट् परम्परायां भारतदलस्य नायकरूपेण के एल् राहुलः नियुक्तः। इदानीन्तननायकः शुभ मान गिलः, उपनायकः श्रेयस् अय्यरश्च आहतौ सन्तौ बहिर्गतौ इत्यत एव राहुलस्य नियुक्तिः। मासस्यास्य ३० तमे दिनाङ्के राञ्चिमध्ये प्रथमस्पर्धा सम्पत्स्यति। १२ एकदिनस्पर्धासु इतःपूर्वं राहुलः भारतदलस्य नायकपदमूढवान्। अष्टसु विजयप्राप्तिरभवत् च।
दर्शनपरिमितानां क्रिकट् विश्वचषकः भारतेन स्वायत्तीकृतः।
कोलम्बो> दर्शनपरिमितानां महिलानां प्रथमः क्रिकेट् विश्वचषकः भारतेन स्वायत्तीकृतः। नेपालं सप्त द्वारकैः पराजयत।
अपराजितत्वेनैव भारतस्य किरीटप्राप्तिः। 'लीग्' नामके प्रथमचरणे श्रीलङ्का, आस्ट्रेलिया, नेपालं, यू एस्, पाकिस्थानदलानि भारतं पराजयत। पूर्वान्त्यचरणे आस्ट्रेलियां पराजयत।
न्यायाधीशः सूर्यकान्तः भारतस्य मुख्यन्यायाधिपः अभवत्। .jpeg)
न्याया. सूर्यकान्तः शपथवाचनं करोति।
सप्त राष्ट्राणां मुख्यन्यायाधीशाः अतिथयः।
नवदिल्ली> भारतसर्वोच्चन्यायालयस्य ५३ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः सूर्यकान्तः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। सेवानिवृत्तस्य मुख्यन्यायाधिपस्य बि आर् गवायवर्यस्य स्थाने अस्ति सूर्यकान्तस्य स्थानोपलब्धिः।
भूट्टानं,केनिया, मलेष्या, ब्रसील्, मौरीष्यस्, नेपालं, श्रीलङ्का इत्येतेषां राष्ट्राणां मुख्यन्यायाधिपाः कार्यक्रमे सन्निहिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथसिंहः इत्यादयः प्रमुखाः नेतारः भागमकुर्वन्।
मध्यप्रदेशे अनधिकृतम् आयुधनिर्माणम्।
३६ जनाः निगृहीताः।
मुम्बई> मध्यप्रदेशस्थे बर्वानीजनपदे ग्रामे अन्तर्राज्य आयुधनिर्माणकेन्द्राणि मध्यप्रदेशारक्षकविभागस्य साह्येन पूनास्थेन आरक्षकसंघेन भग्नीकृतानि। ३६ जनाः निगृहीताः। महान् आयुधसञ्चयश्च गृहीतः।
पूनास्थेषु आरक्षकस्थानेषु पञ्जीकृतानाम् अन्वेषणानां मध्ये आसीत् मध्यप्रदेशस्थं भुषुण्डिनिर्माणकेन्द्रमधिकृत्य सूचना लब्धा। मध्यप्रदेशस्य आरक्षसेनया सह कृते मार्गणे विविधस्थानेषु ५० भुषुण्डिनिर्माणकेन्द्राणि भग्नीकृतानीति पूनाप्रान्तस्य आरक्षकविभागस्य कम्मीषणर् पदीयः रञ्जन् कुमारशर्मा अवोचत्।
चण्डीगढस्य पूर्णनियन्त्रणं
केन्द्रप्रशासनं निवृत्तम्।
नवदिल्ली> विपक्षीयदलानां प्रतिषेधहेतुतया चण्डीगढनगरस्य पूर्णनियन्त्रणं केन्द्रप्रशासनस्य अधीने कर्तुमुद्दिश्य विधेयकात् सर्वकारः निवृत्तः। निर्दिष्टं विधेयकं संसदः शीतकालसम्मैलने आनेतुं नोद्दिश्यते इति गृहमन्त्रालयेन निगदितम्।
डिसम्बर् प्रथमदिनाङ्के आरप्स्यमाणे संसदीयसम्मेलने प्रस्तुतीकर्तुं लोकसभा-राज्यसभा सेक्रटेरियट् विभागेन बहिर्नीतेषु विधेयकेषु चण्डीगढं २४० तमे अनुच्छेदे अन्तर्भावयितुं विद्यमानं १३१तमं शासनसंविधानपरिवर्तविधेयकमपि आसीत्।
पञ्चाबस्य प्रशासनदलम् आम् आद्मी पार्टी, विपक्षदलं कोण्ग्रसः, अकालिदलम् इत्यादिभिः राजनैतिकदलैः महान् प्रतिषेधः आरब्धः। अतः केन्द्रप्रशासनं निवृत्तमभवत्। पञ्चाबस्य हरियानस्य च राजधानी नगरं चण्डीगढं केन्द्रप्रशासनस्याधीने कर्तुमासीत् उद्यमः। चण्डीगढः केन्द्रप्रशासनप्रदेशः भवत्यपि शासनसंविधाने नियमनिर्माणे च राज्ययोः नियन्त्रणे एव वर्तते।
केरले अतिवृष्टिः।
अनन्तपुरी> दक्षिणमध्यकेरले बुधवासरपर्यन्तं महती वृष्टिरनुवर्तिष्यते। तिरुवनन्तपुरं, कोल्लं जनपदद्वये ओरञ्जजाग्रत्ता उद्घोषिता।
मलाका समुद्रान्तर्भागे अन्तमानसमुद्रस्य समीपे न्यूनमर्दः रूपीकृत इति पर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीय आरबसमुद्रे लक्षद्वीपसमीपे चक्रवातः च रूपीकृतः। अनयोः प्रभावेणैव केरले अतिवृष्टेः हेतुः। दक्षिणतः सप्तसु जनपदेषु बुधवासरपर्यन्तं वृष्टिसम्भावना वर्तते।
जि-२० शिखरसम्मेलनं दक्षिणाफ्रिकायां समारब्धम्।
मोदिना तिस्रः आयोजनाः निर्दिष्टाः। 
जि-२०सम्मेलनस्य वेदिका।
जोहनासबर्गः> अमेरिकायाः अपसरणम् अवगणय्य जि-२० राष्ट्राणां सम्मेलनं जोहनासबर्गस्थे 'सोवेटो नगरे' समारब्धम्। भौगोलिकविकासाय मानदण्डनिर्णये गहनं पुनर्विचिन्तनमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। आगोलस्तरे उन्मादक-भीकरवादश्रृङ्खलाः प्रतिरोद्धुम् अभियोजना आरम्भणीया इति च मोदिवर्येण निर्दिष्टम्। तथा च स्वास्थ्यविषये शीघ्रप्रतिकरणाय 'Global Health care Response Team' , पर्यावरणसन्तुलितं सांस्कृतिकं च जीवनक्रमसंरक्षणाय 'Global Traditional knowledge Repository' इत्यादीनि आविष्करणीयानीति च तेन निर्दिष्टम्।
धर्मभेदं विना मनुष्यत्वस्यमार्गे यामः - भारतं दुर्बलं कर्तुं येन केनापि न कदापि शक्यते - शाहरुख खानः
समीपकाले दुरापन्नेषु भीकराक्रमणेषु पहल ग्राम आक्रमणेषु दिल्ली आक्रमणेषु च हतानां कृते आदरम् अर्पितवान् नटः शहरूख खानः। वीरमृत्युं प्राप्तवतेभ्यः सैनिकेभ्यः शिरोहस्तप्रणामं (salute) करोमीति तेन उक्तम्। शनिवासरे मुंबै मध्ये आयोजिते ग्लोबल् पीस् ओणेर्स् 2025 इति कार्यक्रमे भाषमाणः आसीत् सः।
वयं मिलित्वा शान्तेः पदं अनुसरामः। जातिधर्म वैविध्यं विस्मृत्य पदविन्यासं किरिष्यामः इत्यपि महोदयेन उक्तम्। अस्माकं मध्ये शान्तिः सन्ति चेत् भारतं भाययतुं येन केनापि न कदापि शक्यते ।
दिल्ली स्फोटनं
जय्षेसम्बन्धीयः एकः गृहीतः।
नवदिल्ली> दिल्ल्यां रक्तदुर्गसमीपे सप्ताहात्पूर्वं आपन्ने स्फोटनप्रकरणे जय्षे मुहम्मद् इति भीकरसंघटनेन सम्बन्धी कश्चन अन्वेषणसंघेन गृहीतः। पुल्वामाप्रदेशे विद्युत्सम्बन्धकर्मकरः तुफैलनामक एव गृहीतः। गूढवृत्याम् अस्य भागभागित्वं प्रबलीक्रियमाणानि प्रमाणानि अन्वेषणसंघाय लब्धानीति सूच्यते।
तथा च राष्ट्रस्य विविधप्रदेशेषु स्फोटनं कर्तुं जेय्षे मुहम्मदेन सह सम्बन्धीयः फरीदाबादस्थःभीकरसंघः आसूत्रणमकरोदिति वृत्तान्तमस्ति। २०२३ तमादारभ्य एतदर्थं प्रवर्तनमारब्धमिति निगृहीतेन डो मुहम्मिल् षक्कील् इत्यनेन उक्तमिति एन् ऐ ए अधिकारिभिः सूचितम्।
चतस्रः श्रमसंहिताः विज्ञापिताः।
नवदिल्ली> राष्ट्रस्य श्रमनियमेषु सुप्रधानं परिष्कारं विधाय केन्द्रसर्वकारेण चतस्रः श्रमसंहिताः विज्ञापिताः। कर्ममण्डले नूतनपरिष्काराय हेतुः भविष्यति।
२०१९ तमवर्षस्य वेतनसंहिता [code of wages], २०२० तमवर्षस्य सामाजिक सुरक्षासंहिता [code on social security], श्रमसुरक्षा, स्वास्थ्य - कर्मावस्थासंहिता [code on occupational safety, health & working conditions], उद्योग बन्धसंहिता [industrial relations code] इत्येताः नूतनसंहिताः। वर्तमानानां २९ भिन्नभिन्नसंहितानां स्थाने अस्ति एकीकृतश्रमसंहिता।
नूतनश्रमसंहितां प्रस्तूयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् श्रमिकानां शक्तीकरणाय समग्रं प्रगतिरूपं परिष्करणमेव क्रियावत्वं प्राप्तम्। आत्मनिर्भरभारताय परिष्करणमेवेतत् मोदिवर्यः उक्तवान्। परन्तु श्रमसंहिताः एकपक्षीयेन विज्ञापिताः इति प्रक्रमः अपलपनीयः इति विपक्षीयश्रमिकसंघटनैः उक्तम्।
जि - २० शिखरसम्मेलनं - नरेन्द्रमोदी दक्षिणाफ्रिकां सम्प्राप्तवान्।
जोहनासबर्गः> दक्षिणाफ्रिकायां संचाल्यमाने जि - २० राष्ट्राणां शिखरसम्मेलने भागं गृहीतुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे जोहनासबर्गं सम्प्राप्तवान्। परम्परागतरीत्या तस्मै स्वागतं लब्धम्। प्रथमतया एव दक्षिणाफ्रिकायां जि - २० शिखरसम्मेलनम् आयोजयति।
गासायुद्धोपशमः तुलावस्थायाम्।
इस्रयेलस्य आक्रमणे १२ होराभ्यन्तरे ३३ मरणानि।
गासानगरं> ओक्टोबर् १० तमदिनाङ्कतः इस्रयेल-हमासयोः युद्धविरामः वर्तमाने गासाप्रान्ते पुनः इस्रयेलस्य घोरं व्योमाक्रमणम्। गुरुवासरस्य प्रत्युषसि विधत्ते आक्रमणे पञ्च जनाः मृताः इति गासायाः स्वास्थ्यमन्त्रालयेन निगदितम्। अनेन अत्र १२ होराभ्यन्तरे कृते आक्रमणे ३३ जनाः मृत्युमुपगताः।
दक्षिणगासायां खान् यूनिस् इत्यत्रस्थे अल् काबिरानगरे आसीत् गुरुवासरे आक्रमणं विधत्तम्। बुधवासरे गासानगरे भवनसमुच्चयं प्रति कृते अग्निशस्त्राक्रमणे १६ जनाः, खान् यूनिसे कृते आक्रमणे १२ जनाः च मृताः।
भीकरशिबिराणि लक्ष्यीकृत्य आसीदाक्रमणमिति इस्रयेलेन अभिमानितम्। इस्रयेलस्य आक्रमणे युद्धोपरमप्रक्रियायां मध्यवर्तिषु अन्यतमेन खतरराष्ट्रेण आशङ्का प्रकटिता।