OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 24, 2025

 मध्यप्रदेशे अनधिकृतम् आयुधनिर्माणम्। 

३६ जनाः निगृहीताः। 

मुम्बई>  मध्यप्रदेशस्थे बर्वानीजनपदे ग्रामे अन्तर्राज्य आयुधनिर्माणकेन्द्राणि मध्यप्रदेशारक्षकविभागस्य साह्येन पूनास्थेन आरक्षकसंघेन भग्नीकृतानि। ३६ जनाः निगृहीताः। महान् आयुधसञ्चयश्च गृहीतः।

  पूनास्थेषु आरक्षकस्थानेषु पञ्जीकृतानाम् अन्वेषणानां मध्ये आसीत्  मध्यप्रदेशस्थं भुषुण्डिनिर्माणकेन्द्रमधिकृत्य सूचना लब्धा। मध्यप्रदेशस्य आरक्षसेनया सह कृते मार्गणे विविधस्थानेषु ५० भुषुण्डिनिर्माणकेन्द्राणि भग्नीकृतानीति पूनाप्रान्तस्य आरक्षकविभागस्य कम्मीषणर् पदीयः रञ्जन् कुमारशर्मा अवोचत्।