मध्यप्रदेशे अनधिकृतम् आयुधनिर्माणम्।
३६ जनाः निगृहीताः।
मुम्बई> मध्यप्रदेशस्थे बर्वानीजनपदे ग्रामे अन्तर्राज्य आयुधनिर्माणकेन्द्राणि मध्यप्रदेशारक्षकविभागस्य साह्येन पूनास्थेन आरक्षकसंघेन भग्नीकृतानि। ३६ जनाः निगृहीताः। महान् आयुधसञ्चयश्च गृहीतः।
पूनास्थेषु आरक्षकस्थानेषु पञ्जीकृतानाम् अन्वेषणानां मध्ये आसीत् मध्यप्रदेशस्थं भुषुण्डिनिर्माणकेन्द्रमधिकृत्य सूचना लब्धा। मध्यप्रदेशस्य आरक्षसेनया सह कृते मार्गणे विविधस्थानेषु ५० भुषुण्डिनिर्माणकेन्द्राणि भग्नीकृतानीति पूनाप्रान्तस्य आरक्षकविभागस्य कम्मीषणर् पदीयः रञ्जन् कुमारशर्मा अवोचत्।