एष्या पवर् इन्टक्स् क्रमे जापानम् अतिक्रम्य भारतं तृतीयस्थानं प्राप्तम् ।
नवदिल्ली> 'ओपरेषन् सिन्दूर्' प्रक्रमानन्तरम् आर्थिक- सैनिकशक्तेः प्रभावेन एष्य पवर् इन्टक्स् २०२५ मध्ये जातायां गणनायां भारतं तृतीयस्थानं प्राप्तम्। राष्य पसफिक् प्रक्रमेषु राष्ट्राणां शक्तिः अवगन्तुम् उपयुज्यमानः सुविधा भवति एष्या पवर् इन्टक्स्। लोवि इन्स्टिट्यूट् द्वारा प्रतिसंवत्सरम् इयं इन्ट्क्स् प्रकाशयति। तदर्थं इयं संस्था २५ राष्ट्रान् एतस्याः विवरणस्य प्राप्त्यर्थं सर्वेक्षणं कुर्वन्ति।
