दिल्ली स्फोटनं
जय्षेसम्बन्धीयः एकः गृहीतः।
नवदिल्ली> दिल्ल्यां रक्तदुर्गसमीपे सप्ताहात्पूर्वं आपन्ने स्फोटनप्रकरणे जय्षे मुहम्मद् इति भीकरसंघटनेन सम्बन्धी कश्चन अन्वेषणसंघेन गृहीतः। पुल्वामाप्रदेशे विद्युत्सम्बन्धकर्मकरः तुफैलनामक एव गृहीतः। गूढवृत्याम् अस्य भागभागित्वं प्रबलीक्रियमाणानि प्रमाणानि अन्वेषणसंघाय लब्धानीति सूच्यते।
तथा च राष्ट्रस्य विविधप्रदेशेषु स्फोटनं कर्तुं जेय्षे मुहम्मदेन सह सम्बन्धीयः फरीदाबादस्थःभीकरसंघः आसूत्रणमकरोदिति वृत्तान्तमस्ति। २०२३ तमादारभ्य एतदर्थं प्रवर्तनमारब्धमिति निगृहीतेन डो मुहम्मिल् षक्कील् इत्यनेन उक्तमिति एन् ऐ ए अधिकारिभिः सूचितम्।