केरळ-संस्कृत-अकादम्या: पुरस्काराः समर्पिताः।
केन्द्रीयसंस्कृत-विश्वविद्यालयस्य गुरुवायूर्-केन्द्रे आयोजितः पुरस्कारसमारोहः कलामण्डल-कल्पित-विश्वविद्यालयस्य कुलपतिः डा. बी. अनन्तकृष्णः उद्घाटनं कृतवान् । अनन्तरं पुरस्कार विजेतृभ्यः पुरस्कारान् प्रदत्तवान्। अकादम्याः अध्यक्षः प्रो. के. टी. माधवः सभायां अध्यक्षः आसीत्। प्रो. पी.सी. मुरलीमाधवः पुरस्कारं प्राप्तववतः परिचायनम् अकरोत्।
संस्कृत-प्रणयभाजनं पी.टी. कुर्याक्कोस् एन्डोव्मेण्ट-पुरस्कारम् (₹२५०००, प्रशस्तिपत्रं, फलकम्) डा. वी. रामकृष्णभट्टाय प्राप्तम्। अकादमि-संस्कृतिपुरस्कारः डा. सी. राजेन्द्राय, पी.सी. वासुदेवन् इळयत् स्मारक-साहितिप्रभा-पुरस्कारः डा. वी.आर्. मुरलीधराय, न्यायभूषणं रामन् नम्ब्यार् स्मारक-पुरस्कारः डा. एस्.एन्. महेष् बाबु महोदयाय च प्राप्ताः (₹१००००, फलकम्, प्रशस्तिपत्रं च)।
गुरुवायूर-देवस्वम् अध्यक्षः डा. वी.के. विजयन् प्रशस्तिपत्रस्य सुवाचनम् अकरोत्। अकादम्याः आस्थानमन्दिर-निधिः डा. पी. नारायणन् नम्पूतिरिणा अध्यक्षाय प्रो. के.टी. माधवाय समर्पिता।सभायां प्रो. के.के. षैनः स्वागतं , डा. के.ए. रवीन्द्रः धन्यवादं च प्रकटितवन्तौ। डा. पी.वी. कृष्णन् नायरः पी.टी. कुर्याक्कोस् स्मरण-प्रवचनं कृतवान्। डा. ई.आर्. नारायणः, एन्. राजगोपालः, डा. वी. रामकृष्णभट्टः, डा. वी.आर्. मुरलीधरः, डा. एस्.एन्. महेष् बाबुः च भाषणानि अकुर्वन्।

