अमेरिकया सह ७९९५ कोटि रूप्यकाणां राष्ट्ररक्षासन्धिः।
नवदिल्ली> नौसेनायाः अत्याधुनिकानाम् MH 60 R इति उदग्रयानानां परिपालनाय साङ्केतिकपरिनिर्वहणाय च पञ्चवर्षाणि यावत् यू एस् राष्ट्रस्य साहाय्यं दृढीकर्तुं उभाभ्यां राष्ट्राभ्यां ७९९५ कोटि रूप्यकाणां सन्धिः हस्ताक्षरीकृतः। उदग्रयानानां सुगमप्रवर्तनाय समग्रः भाण्डः [package] भवत्येषः।
सन्ध्यनुसारं २४ उदग्रयानानि भारताय लप्स्यन्ते। यन्त्रोपकरणानां लभ्यता, दोषपरिहाराय साङ्केतिकसाहाय्यं, सेवकानां परिशीलनम् इत्यादिषु कार्येषु अमेरिकायाः साह्यं लप्स्यते।