OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 21, 2025

 गासायुद्धोपशमः तुलावस्थायाम्। 

इस्रयेलस्य आक्रमणे १२ होराभ्यन्तरे ३३ मरणानि। 

गासानगरं> ओक्टोबर् १० तमदिनाङ्कतः इस्रयेल-हमासयोः युद्धविरामः वर्तमाने गासाप्रान्ते पुनः इस्रयेलस्य घोरं व्योमाक्रमणम्। गुरुवासरस्य प्रत्युषसि विधत्ते आक्रमणे पञ्च जनाः मृताः इति गासायाः स्वास्थ्यमन्त्रालयेन निगदितम्। अनेन अत्र १२ होराभ्यन्तरे कृते आक्रमणे  ३३ जनाः मृत्युमुपगताः। 

  दक्षिणगासायां  खान् यूनिस् इत्यत्रस्थे अल् काबिरानगरे आसीत् गुरुवासरे आक्रमणं विधत्तम्। बुधवासरे गासानगरे भवनसमुच्चयं प्रति कृते अग्निशस्त्राक्रमणे १६ जनाः, खान् यूनिसे कृते आक्रमणे १२ जनाः च मृताः। 

  भीकरशिबिराणि लक्ष्यीकृत्य आसीदाक्रमणमिति इस्रयेलेन अभिमानितम्। इस्रयेलस्य आक्रमणे युद्धोपरमप्रक्रियायां मध्यवर्तिषु अन्यतमेन खतरराष्ट्रेण आशङ्का प्रकटिता।