OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 27, 2025

 अभिनेता धर्मेन्द्रः दिवंगतः। 


मुम्बई> हिन्दी चलच्चित्रमण्डले अतिश्रेष्ठः अभिनेता धर्मेन्द्रः [९०] सोमवासरे  प्रभाते दिवंगतः। १९६० वर्षादारभ्य 'बोलिवुड्' इति हिन्दीचलच्चित्रास्वादकानां हृदयनायकः आसीत् धर्मेन्द्रवर्यः। सामाजिकदर्शनं विलापयात्रां वा विना सोमवासरे एव अन्त्यकर्माणि विधत्तानि। 

  'षोले' नामके हिन्दी चलच्चित्रे नायकरूपेण अभिनयं कृतवान् धर्मेन्द्रवर्यः षट्दशकाणि यावत् ३०० अधिकेषु चलच्चित्रेषु स्वनटनपाटवं प्रदर्शितवान्। पञ्चाबराज्ये लुधियानजनपदे नस्रालिग्रामे  कस्मिंश्चित् कृषकपरिवारे आसीदस्य जन्म। धीरनायकरूपेण [Action Hero] प्रणयनायकरूपेण च युगपत् आराधकानां हृदये सः वीरप्रतिष्ठां सम्पादितवान्। 

  २००४ तमे वर्षे धर्मेन्द्रवर्यः  बीकानेर मण्डलात् भाजपादलस्य प्रतिनिधिरूपेण लोकसभां प्राप्तवान्। २०१२ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः।