'विधिपरिष्करणं वर्धते' इत्यस्मिन् आशङ्कां दुःखं च प्रकाश्य सर्वोच्चन्यायालयः।
नवदिल्ली> सर्वोच्चन्यायालयस्य केनचन नीतिपीठेन विहितः विधिः इतरेण पीठेन अवगण्य परिष्क्रियते अथवा परित्यज्य अतिक्रामते इति शीलं वर्धते इति सर्वोच्चन्यायालयेन निरीक्षितम्। न्यायाधिपौ दीपाङ्कर दत्ता,अगस्टिन् जोर्ज् मसीह् इत्येतयोः नीतिपीठ एव अस्मिन् दुश्शीले आशङ्कां व्यथां च प्राकटयत्। नियममण्डले नीतिपीठस्येदं निरीक्षणं नूतनचर्चायाः प्रारम्भं करिष्यतीति सूच्यते।
विधेयकप्रकरणे राज्यपालानां राष्ट्रपतेः च कालक्रमनिर्णयः, वीथीशुनकानां पुनरधिवासः, दिल्लीनगरे स्फोटकनिरोधनं, परियोजनासु पूर्वकालतः पारिस्थितिकानुज्ञा इत्यादिषु प्रकरणेषु सर्वोच्चनीतिपीठस्य प्राथमिकविधिः इतरेण नीतिपीठेन परिष्कृतः अतिक्रामितः वा कृतः। एतत् शीलं तु राष्ट्रसंविधानस्य १४१ तमे अनुच्छेदे निक्षिप्तस्य सर्वोच्चन्यायालयस्य परमाधिकारस्य हानिकराय भविष्यतीति अनेन नीतिपीठेन सूचितम्।
.jpg)