कान्डिडेट् चतुरङ्गः।
यावोहिर् सिन्द्रोवः अग्रगामी वर्तते।
प्रग्नानन्दः चतुर्थस्थाने।
पेजिया (सैप्रस्)> सैप्रस् राष्ट्रे अनुवर्तमाने फिडे कान्डिडेट् चतुरङ्गप्रतिद्वन्द्वे उस्बस्किस्थानस्य यावोहिर् सिन्द्रोवः इतरानपेक्ष्य प्रभावशाली वर्तते। स्पर्धापरम्परायाः चक्रचतुष्के सम्पूर्णे विजयत्रयेण एकया समस्थित्या च सार्थत्रयाङ्कैः स्वप्रभावं प्रकाशयन् अग्रे चरति।
विश्वचषकजेतृरूपेण कान्डिडेट् चतुरङ्गस्पर्धायां योग्यतां प्राप्तवान् सिन्द्रोवः तृतीये चरणे भारतस्य प्रग्नानन्दं चतुर्थचरणे विश्वतृतीयस्थाने तिष्ठन्तम् अमेरिकायाः फाबियो करुवानं च पराजित्य स्वशक्तिं प्रमाणीकृतवान्।
प्रथमचरणे विजयेन आरब्धवान् प्रग्नानन्दः परं स्वप्राभवं संस्थापयितुं न शक्तः। क्रीडाचतुष्कात् अङ्कद्वयेन सः चतुर्थस्थाने वर्तते। १४ चरणयुक्तायां अस्यां परम्परायां यः विजयी भविष्यति सः अन्तिमप्रतिद्वन्द्वे भारतस्य डि गुकेशेन सह क्रीडिष्यति।
महिलानां परम्परायां युक्रेनस्य अन्न मुष्चुकाभिधेया सार्धद्वयेन अङ्केन अग्रे तिष्ठति। भारतस्य आर् वैशाली तृतीयस्थाने विश्वचषकं प्राप्तवती दिव्या देशमुखः अष्टमस्थाने च वर्तेते।









