ऐ पि एल् क्रिकट् क्रीडोत्सवः अद्य आरभ्यते।
बङ्गलुरु> इन्डियन् प्रीमियर् लीग् [Indian Premier League - IPL] क्रिकट् क्रीडाः शनिवासरे आरभ्यते। चिन्नस्वामि क्रीडाङ्कणे रात्रौ ७. ३० वादने वर्तमानीनप्रवीराः 'रोयल् चलञ्चेर्स् बङ्गलुरु' , 'सण् रैसेर्स् हैदराबादः' च मिथः प्रारम्भस्पर्धा सम्पत्स्यते।
दश संघाः वीरतापरीक्षणे भागं कुर्वन्ति। आहत्य ८४ स्पर्धाः भविष्यन्ति। भारतस्य विभिन्नराज्येषु १४ स्थानेषु स्पर्धाः सम्पत्स्यन्ते।
