OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 29, 2016

वैद्य-दन्तवैद्यप्रवेशाय एकीकृत प्रवेशनपरीक्षा।

नवदिल्ली > भारते एम् बी बी एस् , बि डि एस् इति वैद्य,दन्तवैद्य पठनपद्धत्योः प्रवेशाय राष्ट्रव्यापिकाम् एकां योग्यतानिर्णयप्रवेशकपरीक्षां (NEET) चालयितुं सर्वोच्चन्यायालयेन आदेशः कृतः। मेय्मासस्य प्रथमे दिने प्रचाल्यमाना अखिलभारत पूर्ववैद्यपरीक्षा नीट् परीक्षायाः प्रथमसोपानमिति परिगणिष्यते।
   जूलाय् २४ तमे दिने द्वितीयसोपानपरीक्षा भविष्यति। परीक्षाद्वयस्यापि फलं आगस्ट् १७ तमे प्रसिद्धीकृत्य प्रवेशनकार्यक्रमाः सेप्तम्बर् ३०तमदिनाभ्यन्तरे पूर्णताम् एष्यन्ति।
  सर्वेभ्यो सर्वकार-वैयक्तिक कलालयेभ्यः कल्पितविश्वविद्यालयेभ्यश्च सर्वोच्चनीतिपीठस्य अयमादेशः अनुसरणीयो भवति।