OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 27, 2016

फिदल् कास्त्रो दिवंगतः। 
क्यूबाराष्ट्रं पञ्चदशाब्दं यावत् ऐतिहासिकरीत्या शासनं कृतवान् फिदल् कास्त्रो इति नाम्ना प्रख्यातः फिदल् अलहान्द्रो कास्त्रो रूस् यशःशरीरः सञ्जातः। अमेरिक्कादीनि साम्राज्यत्व राष्ट्राणि जनकीयसेनान्दोलनेन प्रतिरुध्य राष्ट्रपति- प्रधानमन्त्रिरूपेण क्यूबाराष्ट्रं नीतवान् विप्लवनायकः आसीत् फिदल् कास्त्रो वर्यः। क्यूबाराजधान्यां हवानायां शुक्रवासरे रात्रौ आसीत् अन्त्यमिति तस्य सोदरेण तथा च क्यूबाराष्ट्रपतिना रौल् कास्ट्रोवर्येण विज्ञापितम्। फिदलस्य अन्त्याभिलाषमनुसृत्य मृतदेहः शनिवासरे एव दग्धः। क्यूबायां नवदिवसीयं दुःखाचरणम् प्रख्यापितम्।

जनरलबाजवा पाकिस्तानस्य  नूतनसैन्यप्रमुख:
 पाकिस्ताने भाविसैन्यप्रमुखः कः भविष्यति इति विषयात्मकोहापोहः समाप्तिंगतः,पाकिस्तानस्य सैन्यप्रमुखस्य राहिलशरीफ़स्य सेवानिवृत्तेरनन्तरं लेफ्टिनेंट-जनरल-क़मर-जावेद-बाजवा भाविसैन्यप्रमुखत्वेन प्रचितः। बलूचरेजीमेंट इति सैन्यदलात् सम्पृक्तः जनरल-बाजवा पाकिस्तानस्य षोडशः सेनाप्रमुखः भविष्यति। असौ सोमवासरे सैन्यप्रमुखपदभारं स्वीकरिष्यति।

प्राचीनशिलाचित्राणि मध्यप्रदेशतः लब्धानि।
भोपाल्> विश्वस्य प्राचीनतमानि  शिलाचित्राणि मध्यप्रदेशराज्यतः लब्धानि। चित्राणां पञ्चलक्षं संवत्सराणां प्राचीनत्वम् अस्ति। माण्डस्वर् जनपदस्य भान् पुरे एव शिलासु लिखितानि चित्राणि दृश्यन्ते । दराकी चट्टन् गुहायाः त्रिंशदधिकपञ्चाशत्-संख्यामितानि चित्राणि संवीक्ष्य एव पुरातन-शिला-चित्राणि अभिज्ञातानि इति रोक् आर्ट् सोसईटी इति सुज्ञातायाः संस्थायाः कुलसचिवः गिरिराज-कुमारः अवदत्। द्वयाधिक द्विसहस्रतमात् संवत्सरात् आरभ्य अम्मिन् मण्डले अनुसन्धानः प्रचलन्नस्ति। ओस्त्रेलियायाः अनुसन्धान वैज्ञानिकेन रोबर्ट् जी बेड्नारिकेन एव एतानि चित्राणि प्राचीनात् प्राचीनतराणि इति प्रमाणीकृतानि।