OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 25, 2016

 भारते प्रप्रथमतया प्रदानवित्तकोश: प्रारब्धः।

नवदेहली >प्रमुख प्रमुख-दूरवार्ता-प्रसारक-संस्था (एयर् टेल्) भारते प्रप्रथमतया प्रदानवित्तकोशस्य (payment bank) स्थापना राजस्थान् प्रान्ते अद्य प्रारब्धा। प्रयोगात्मकरूपेण वित्तकोशस्य सेवा: आरब्धा। एयर्टेल् प्रदर्शनापणेषु वित्तकोशलेखाम् आरब्धुं शक्यते। एतेषु वित्तकोशेषु धनविनिमय,उपसंहारणादि सौकर्याणि लभ्यन्ते । धनपत्र -निरसन-कारणत: जनानां कृते अङ्कीयधनदानं (Digital payment) आनीतम् । अधुना राजस्थान् प्रान्ते १०,००० एयर्टेल् प्रदर्शनापणेषु वित्तकोश शाखा: उद्घाटिता: । आगामि दिवसेषु   । सर्वेष्वपि देशान्तरप्रान्तेषु विस्तृतरूपेण अस्या: संस्थाया: शाखा: उद्घाटयिष्याम इति एयर्टेल् वित्तकोशस्य सी.ई.ओ शशिअरोरा अवदत्।

 धनपत्रस्य परिवर्तनं समापितम्।
नवदिल्ली> निरोधितानां पञ्चशत - सहस्र रूप्यकाणां धनपत्राणि वित्तकोशद्वारा पत्रालयद्वारा च नूतनधनपत्र रूपेण परिवर्तनसुविधा समापिता। किंतु इतःपरमपि एतादृशानि असाधुरूप्यकाणि स्वस्य वित्तकोशस्थपञ्चितदलेषु (bank account) निक्षेप्तुमेव अर्हति। तथापि येन केनापि अवश्यसेवनद्वारा प्राचीनपञ्चशतरूप्यकाणां उपयोगः डिसंबर् मासस्य पञ्चदश दिनाङ्गपर्यन्तं कर्तुं शक्यते। विनिमयमण्डलेभ्यः सहस्रस्य (१०००) धनपत्राणि सम्पूर्णतया निरुद्धानि।