OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 4, 2016

राजस्थाने त्रिसहस्रं कोटि रूप्यकाणां उन्मादकवस्तूनि गृहीतानि। 
नवदिल्ली >अन्तःराष्ट्रविपण्यां त्रिसहस्रंकोटि रूप्यकाणां सार्धत्रयोविंशति टण् परिमितानि उन्मादकवस्तूनि राजस्थानस्य उदयपुरात् रहस्यान्वेषणसंस्थया [डि.आर्.ऐ] संगृहीतानि। अस्मिन् विषये बोलिवुड् चलनचित्रनिर्माता सुभाष् दुधानी बन्धितः।
      उदयपुरस्थे निर्माणशालातः द्विकोटिसंख्याकाः मान्ड्राक्स् नामकाः वटकाः [टाब्लट्] एव गृहीताः। विषादरोगाय उपयुज्यमानम् औषधमस्ति मान्ड्राक्स्। अस्य अमितोपयोगः मानवम् अबोधावस्थां नीयते। उन्मादाय एते फलकाः उपयुज्यन्ते इति प्रत्यभिज्ञानेन इदमौषधं निरोधितमासीत्। किन्तु उदयपुरस्थायां औषधनिर्माणशालायां महत्परिमितम् उन्मादवस्तुसंचयनं कृतमिति सूचनानुसारं बि एस् एफ् बलस्य साहाय्येन आसीदिदम् उन्मादकाखेटनं कृतम्।