OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 1, 2016

तुलावर्षा समागता।
अनन्तपुरी> दक्षिणभारते तुलावर्षः इति कथ्यमानः उत्तरपूर्ववर्षाकालः समागत इति पर्यावरणनिरीक्षणकेन्द्रेण निगदितम्। गतदिने तमिल् नाट् आन्ध्राप्रदेशयोः तीरेषु वर्षामेघाः संप्राप्ता इति स्थिरीकृतम्।
     अयं वर्षः संतृप्तमानकेन लप्स्यते इति प्रतीक्षा वर्तते तथापि केरले सामान्येन न्यूनः स्यादिति पर्यावरणकेन्द्रस्य गणना। दक्षिण-पश्चिमकालवर्षः [मण्सूण्] राष्ट्रे साधारणमानकेन लब्धमासीत् तथापि केरले प्रतिशतं ३४ मानकस्य न्यूनता अभवत्। तुलावर्षस्य विषये अपि एषा स्थितिः अभविष्यत् तर्हि राज्यं रूक्षाम् अनावृष्टिं प्राप्स्यति।

केरळाय षष्ठिपूर्तिः।
कोच्ची > देवस्य स्वकीयं स्थानमिति प्रथामवाप्तं केरळराज्यम् अद्य षष्ठिपूर्तिः आघुष्यते। भारतस्य स्वतन्त्रता प्राप्त्यनन्तरं भाषाणाम् आधारेण राज्यपुनःसंघाटने प्रवृत्ते तिरुवितांकूर्-कोच्ची-मलबार् नामकाः तत्कालीनाः लघुदेशाः सम्भूय केरळम् इति नवीनं राज्यं प्रादुरभूत्। १९५६ नवम्बर् प्रथमे दिने आसीत् केरळस्य उदयः। मलयाळं मातृभाषया स्वीकृतम्।⁠⁠⁠⁠