OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 28, 2016

कारागाराक्रमणेन खालिस्थान् नेतृसहिताः षट्जनाः मोचिताः। 
पटियाला > पञ्चाबराज्ये नाभा सेन्ट्रल् कारागारम् आक्रम्य सायुधसङ्घः निरोधितसंस्थायाः खालिस्थान् लिबरेषन् इत्यस्याः नेता हर्मिन्दर् सिंह मिन्टु नामकसहितान् षट् कारागारस्थान् अमोचयत्। आरक्षकवेषेण कारागृहं प्राप्तैः कैश्चित् युवकैः आक्रमणं कृतमिति अधिकृतैः उक्तम्। तेष्वेकः आरक्षकैः गृहीतः।
     ह्यः प्रभाते उपनववादने कार् यानद्वयेन आगतः अक्रमिसङ्घः कारागारस्य द्वारपालकं छुरिकामुपयुज्य आक्रम्य आरक्षकान् विरुध्य शतचक्रपरिमाणं यावत् भुषुण्डिप्रयोगः कृतः।द्वौ आरक्षकौ व्रणितौ। कुप्रसिद्धाः अधोलोकनेतारः एव खालिस्थान् नायकेन सह रक्षां प्रप्ताः।