OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 2, 2016

 आकाशवाण्याः राजधानी-वाहिनी द्वारा ''संस्कृत-सौरभम्'' कार्यक्रमः

नवदेहली >आकाशवाण्याः राजधानीवाहिनी-द्वारा  ''संस्कृत-सौरभम्'' इति नाम कार्यक्रमस्य प्रक्षेपणं करिष्यते। नवम्बर-मासस्य पञ्चमदिने रात्रौ सार्धनववादने प्रक्षेपणं करिष्यते । कार्यक्रमः 666 आवृत्तौ श्रोतुं शक्यते। अस्मिन्  कार्यक्रमे काव्य-पाठ: संस्कृत-पत्रकारितायाः वर्तमानां अवस्थाञ्च अधिकृत्य श्रोतुं शक्यते। डॉ. ऋषिराजपाठक:, संस्कृत-वाणी इति पाक्षिक-पत्रस्य मुख्यसम्पादिका श्रीमती लक्ष्मी शर्मा चात्र सहभागिनौ स्त:। वरिष्ठः वार्तावतारकः संस्कृतपत्रकारसंघस्य वरिष्ठ-सचिवः तथा सम्प्रतिवार्ता- नामिकया अन्तर्जालपत्रिकया अारब्धस्य अॉन्लाईन्- पत्रकारिता-पठनवर्गस्य निदेशकः इत्यादि-स्थानेषु विराजमानः डॉ. बलदेवानन्दसागरः कार्यक्रमस्य मुख्य-नियन्ता भविष्यति।

भारतसीमायां पाकिस्थानस्य शुक्तिकास्त्राक्रमणम् - अष्ट मरणानि।
जम्मु> भारत-पाक् नियन्त्रणरेखायां द्वयोः राष्ट्रयोः सैनिकैः परस्परं महत् शुक्तिकास्त्राक्रमणं कृतम्। किमपि प्रकोपनं विना पाकिस्थानेनैव आक्रमणम् आरब्धम्। अष्ट भारतग्रामीणाः मारिताः। भारतेन कृते प्रत्याक्रमणे द्वौ पाक् सैनिकौ मृतौ। नौषेरा प्रविश्यायामेव भारतस्य प्रत्याक्रमणं संवृत्तम्। जम्मु-काश्मीरमण्डले अनुवर्तमाने पाकिस्थानस्य आक्रमणे प्रदेशवासिनां व्यापादने च मुख्यमन्त्रिणी मेहबूब् मुफ्ती आशङ्कां दुःखं च प्रकाशितवती।