OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 5, 2016

H3 वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, सम्पन्नम्- वी के सारस्वत्।
बहरिन् >भारत सेनायाः सुशक्त बाणेषु उग्रतमं पृथ्वी बाणस्य स्रष्टा डॉ. वी के सारस्वतः बहरिन् संदृष्टवान्। बहरिनस्य सयन्स् इन्द्या फोरम् नाम दलस्य वैज्ञानिक प्रतिभा पुरस्कारदानाय एव अस्य बहरीन् राष्ट्र सन्दर्शनम्। आसूत्रण कम्मीषनस्य नूतन स्वरूपस्प 'आयोग्' नाम संस्थायाः अङ्गत्वेन विराजमानः चअयं सारस्वत् । भारतीय प्रतिरोध-अनुसन्धान केन्द्रस्य DRDO अधिपः भवत्‍ययम्
 वैज्ञानिक प्रतिभापुरस्कारेण समादृतैः छात्रैःसह 'मिथ- भाषण मभवत् सायं पञ्च वादने भारत जषन् माल् वेदिकायाम् आसीत् कार्याक्रम: । भारत-संस्कृतिः सदा वैज्ञानिकाभिमुख मासीत् अनेनकारणेन वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, अनुसन्धानसरण्या च सम्पन्नम् आसीत् इति तेन उक्तम्।

 चौ.चरणसिंहविश्वविद्यालये महर्षिवेदव्याससमारोहः
लख्नौ >उत्तरप्रदेशस्य मेरठस्थितस्य चौधरी-चरणसिंहविश्वविद्यालस्य रजत-जयन्त्यवसरे तत्रत्येन संस्कृतविभागेन नवम्बर मासस्य प्रथमदिनांकात् सप्तदिनांकं यावत्  सप्तदिवसीयः राष्ट्रिय-वेदव्यास-समारोहः समायोज्यते। यस्यान्तर्गतं छात्राणां प्रतिभा-प्रदर्शनमुद्दिश्य विविध-संस्कृत-प्रतियोगिताः शोधसंगोष्ठयः, कविसम्मेलनञ्चायोज्यन्ते। यत्र हि नैकेषां महाविद्यालयीय छात्राः भागम् अभि-स्वीकुर्वन्ति।