OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 1, 2017

व्याजधनान् विरुद्ध्य कृतः प्रतिरोधः प्रशंसनीयः - भारतस्य राष्ट्रपतिः।
 नवदिल्ली > राष्ट्रपति प्रणाब् मुखर्जी वर्यस्य प्राप्यतत्त्वोपोद्घातभाषणेन वर्षीयायव्ययनिर्णायकस्य सत्रस्य बड्जट् नामकस्य आरम्भः अभवत्। ऐतिहासिकाभूतपूर्वमेलनं इत्युक्त्वा असीत् राष्ट्रपतेः भाषणस्य आरंभः। अलीकस्य तथा व्याजधनस्य पुरतः सुशक्तया रीत्या प्रतिरोधं कृत्वा एव भारतसर्वकारः प्रशासनं कुर्वन्ति इत्येतत् प्रशंसार्हं भवति इति राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उच्यते । धनमुद्रिकायाः निर्मुल्यीकरण-निर्णयः चरित्रे लेखनीयः इति उक्तवान् राष्ट्रपतिः। हस्तगतधनं विना धनविनिमयः प्रोत्साहं अर्हतीति अवोचत्। स्वच्छभारत योजना जनानां सहकारितया वृद्धिम् अवाप। भारतभूमिं प्रति गूढरूपेण निलुण्ठन् अन्तरागतानां वैरिणां कृते पर्याप्तं दण्डं  दातुं प्रभवाम: वयम्। सैनिकैः तेषां मूलमेव चूर्णयित्वा अतिप्रहारः कृतः इति प्रवर्तितसाहसक्रियां सूचयित्वा राष्ट्रपतिवर्येण उक्तम्।

केन्द्रायव्ययपत्रावतारणम् अद्य ।
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुण् जेट्लिमहोदयेन लोकसभायां अवतारयिष्यते। मुद्रारूप्यकनिरासानन्तरम्  अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तम् उत्कण्ठाभरिताः वर्तन्ते।

विनोद् राय् बि सि सि ऐ नेता।
नवदिल्ली>भारत क्रिक्कट् नियन्त्रण समित्याः दैनन्दिनकार्यनिर्वहणाय सर्वोच्चन्यायालयेन चतुरङ्गसमितिः नियुक्ता। भूतपूर्वः सि ए जी विनोदराय् वर्यस्य नेतृत्वे रूपवत्कृतायां समित्यां चरित्रकारः रामचन्द्रगुहा, ऐ डि एफ् सि संस्थायाः मुख्यनिदेशकः विक्रम लिमाये , भारतस्य महिला क्रिक्कट् दलस्य भूतपूर्वनेत्री डयाना एडुल्जी इत्येते अङ्गाः। सन्ति।
     निर्वाचनद्वारा यावत्  नवीनाः धुरन्धराः अवरोधितव्याः भवेयुः तावत् लोधासमित्याः निर्देशानुसारं दैनिकप्रवर्तनानि करणीयानि।

ई अहम्मद् दिवंगतः।
नवदिल्ली>भूतपूर्वः केन्द्रमन्त्री, मुस्लीं लीग् राजनैतिकदलस्य देशीयाध्यक्षः, अधुनातनलोकसभासदस्यश्च ई अहम्मदः दिवंगतः। गतदिने लोकसभायां राष्ट्रपतेः तन्त्रप्रख्यापनवेलायां हृदयाघातः अभवत्। झटित्येव सः राम् मनोहर् लोह्य आतुरालये प्रवि शितः अपि प्रातः २.४५ वादने मृत्युमुपगतः। मन्मोहन् सिंहस्य मन्त्रिसभायां विदेशकार्यसहमन्त्रिपदं वहन् स्तुत्यर्हसेवनमकरोत् । अन्त्योपचारक्रियाः श्वः कण्णूर् जनपदे स्वभवने भविष्यति।