OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 8, 2017

 ऐ एस् शिबिरे शताधिकाः भारतीयाः।
करिप्पूर्> अफ्गानिस्थानस्थे नाङ्गर् हार् ऐ एस् भीकरसंस्थायाः शिबिरे शताधिकाः भारतीययुवकाः परिशीलनं कुर्वन्तः सन्तीति देशीय अन्वीक्षणविभागाय ( एन् ऐ ए) सूचना लब्धा। अफ्गानराष्ट्रस्य  रहस्यान्वेषण विभागेनैव एतदधिकृत्य वृत्तान्तः भारतविभागाय दत्तः।
      ऐ एस् संस्थया सह मेलितुं देशं त्यक्तवन्तः द्वाविंशतिः केरलीयाः अन्ये बहवश्च नाङ्गर् हार् प्राप्तवन्तः इति पूर्वमेव एन् ऐ ए विभागेन प्रत्यभिज्ञातमासीत्। किन्तु त्रिंशदधिकं केरलीयाः शिबिरं प्राप्ताः इति सूचना अस्ति।

चतुर्वयस्कः शिशुः अपि शिस्त्राणं धर्तव्यः।
नवदिल्ली> द्विचक्रिकया यात्रासन्दर्भै शिशवः अपि सुरक्षिताः भवन्तु इति सुचिन्तया एव ईदृशः नियमनिर्माणः क्रियते। यान्त्रिकवाहननियमानां परिवर्तनाय संस्थापिता विधानसभायाः सुस्थिरसमित्या एव सर्वकारः आदिष्टा। शिशुनां तथा प्रौढानां च शिरस्त्राणस्य उत्तमोपयोगक्षमता आवश्यकम् इति च समित्या निर्दिष्टः। तथा वेगपरिधिना सह वाहननिर्माणः भवतु। क्षमतारहिताः शिरस्त्राणनिर्माणः दण्डनीयः भवितव्यः इति च समितिना दत्ते निर्देशे प्राधान्यत्वेन उल्लिखितम्।

20-20 क्रिकेट् विश्व-कप् स्पर्धा
दृष्टिबाधितजनानां 20-20 क्रिकेट् विश्व-कप् स्पर्धायां  भारतेन  न्यूजीलैंड् दलं नवक्रीडकाणां सुरक्षापूर्वकं पराभूतम्। न्यूजीलैंडदलेन  निर्धारित 20 क्षेपचक्रेषु  6 क्रीडकाणां हानौ 136 धावनांकाः समर्जिताः प्रत्युत्तरे  भारतीयदलेव  9 क्षेपचक्रेष्वेव विजयोधिगतः। शृंखलायामद्य भारत-नेपालयोर्मध्ये  स्पर्धा भविष्यति।

राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।
 उत्तरप्रदेशोत्तराखण्योः विधानसभेयनिर्वाचनानि आलक्ष्य राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।  बहुजनसमाजदलप्रमुखया  मायावत्या  गाजियाबादे सपादलं भृशमालोचितम्। तयोक्तं यत्  सपाप्रशासनेन तस्याः योजनानां नाम परिवर्त्य श्रेयोधिग्रहणस्य प्रयासः क्रियते इति उत्तराखण्डे भाजपाध्यक्षेण अमितशामहोदयेनोक्तम्।  कांग्रेसशासने भ्रष्टाचारस्य अराजकतायाश्च स्थितिः समुत्पन्ना।