OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 12, 2017

अष्टवयस्का ऑण्लैन् वार्तावतारिका समादृता।
कोच्‍ची >अल्पवयस्का वार्तावतारिका अहल्या मरोहरः ५०० रुप्यकाणां धनपारितोषिकत्वेन सम्मानिता । एषा तृतीयकक्ष्यायां छात्रा एव। वाग्भटसरण्या आयोजिते शास्त्रमथनं नाम राष्ट्रियकार्यक्रमे आसीत् एतादृशम् अनुमोदनम्। अनया सुव्यक्तया रीत्या कृतं वार्तावाचनं दृष्ट्वा प्रेक्षकाः अद्‌भुतस्तब्धाः अभवन्। तदा सम्प्रीतेन डॉ जे आर् प्रसाद् वर्येण मुद्रापत्रद्वारा बालिका समादृता आसीत्। हैदराबाद् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः भवति प्रसाद् वर्यः। सम्प्रतिवार्तायाः वार्तावतारकेषु लघुतमा बालिका भवति अहल्या। ऑण्लैन् वार्तामाध्यमेषु विद्यालय-छात्राणां वार्तावतरणम्  विश्वे प्रप्रथममेव। आयुर्वेदभिषग्भिः आयुर्वेदसरण्याः प्रचाराय आयोज्यमानं दलं भवति वाग्भटसरणी।

 पृष्ठासनस्थैरपि शिरस्त्राणं धर्तव्यम्!
हरिप्पाट् > केरले द्विचक्रिकायानेषु पृष्ठासनस्थानां यात्रिकाणामपि शिरस्त्राणधारणम् आवश्यकमिति यन्त्रयानाधिकारिणां निर्देशः। शिरस्त्राणं विना यात्रायै यन्त्रयाननियमम् १२८अनुसृत्य यानचालकं  शतरूप्यकाण्येव दण्डनम्।
      द्विचक्रिकाचालकैः पृष्ठभागस्थितैश्च शिरस्त्राणं धर्तव्यमिति व्यवस्था अस्त्यपि प्रायोगिकदुष्करेण कर्कशा नासीत्। किन्तु द्विचक्रिकादुर्घटनानाम् आधिक्यः पुनर्विचिन्तनाय अधिकृतान् प्रेरयति स्मः।