OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 7, 2017

यू पि निर्वाचनं - स्थानाशिनेषु प्रतिशतं विंशतिः अपराधिनः।
 नवदिल्ली> उत्तरप्रदेशनिर्वाचने प्रथमसोपाने स्पर्धमाणेषु स्थानाशिनेषु प्रतिशतं विंशतिपरिमिताः अपराधिन इति ए डि आर् (Association for democratic)नामिकया संस्थया प्रकाशितः अन्वीक्षणवृत्तान्तः। एवमस्ति तस्याः प्रवादः - पत्रिकासमर्पणं कृतवत्सु स्थानाशिनेषु भाजपा दलीयेषु प्रतिशतं चत्वारिंशत् परिमिताः विविधेषु विषयेषु अपराधित्वेन उद्घोषिताः सन्ति। त एव पट्टिकायां प्रथमस्थानमावहन्ति। द्वितीयस्थाने तु प्रतिशतम् अष्टत्रिंशत् परिमितैः स्थानाशिभिः बि एस् पि दलं वर्तते। राष्ट्रिय लोक दलं ३३% , तथा एस् पि दलं २९%इति यथाक्रमं तृतीय चतुर्थ स्थानमावहतः च।

तुर्क्कीराष्ट्रे चतुःशतम् ऐ एस् प्रवर्तकाः गृहीताः।
इस्ताम्बूल्>रविवासरे आराष्ट्रं कृते अन्वीक्षणे विदेशिसहिताः उपचतुश्शतं इस्लामिक स्टेट् प्रवर्तकाः गृहीताः इति तुर्क्किराष्ट्रेण निगदितम्। मासात्पूर्वं इस्ताम्बूल् नगरे संवृत्तस्य भीकराक्रमणस्यानन्तरं कृतम् ऊर्जितान्वेषणमासीदिदम्। नववत्सरदिने इस्ताम्बूल् नगरस्थे निशालये सम्पन्ने आक्रमणे ३९ जनाः मृताः आसन्।

न्यायाधिपस्य विज्ञापनं परिहास्यमिति ड्रंप्।
वाषिड्टण्>स्वविज्ञापनस्य निरोधकं न्याधिपं प्रति यू एस् राष्ट्रपतिः डोणाल्ट् ट्रंप्। न्यायाधिपस्य मतं परिहास्यं भवति। राष्ट्रस्य नीतिपालनप्रतिरोधकं तत् निष्कासयिष्यतीति तेन ट्विट्टर माध्यमेन उक्तम्। न्यायलयविज्ञापनं प्रति यू एस् नीतिविभागः झटित्येव आवेदनं दद्मः इति वैट् हौस् ज्ञापयति। पूर्वं आगतानि विज्ञापनानि केवलम् आवेदकानां बाधकानि आसन्। परन्तु इदानीन्तन विज्ञापनं पूर्णं राष्ट्रं बाधकं भवति।
   भीकराक्रमणस्य निरोधनाय सप्तराष्ट्राणां ईरनमिति ट्रंपस्य विज्ञापने व्यक्तीकृतम्। २००१ सेप्टंबर एकादशे दिने जातं न्यू योर्क भीकराक्रमणं निदर्शनतया साक्षीकृतम्। किन्तु तदनन्तरं तादृशं आक्रमणं निरोधितस्य सप्तराष्ट्राणां जनैः न कृतमिति न्यायाधिपः जयिंस् रोबर्ट् संस्थापितम्। ट्रंपस्य विज्ञापनं वस्तुताधिष्ठितं स्यात् न तु भावनाधिष्ठितम् इति न्यायशाला समर्पितम्।