OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 6, 2017

तमिळ् नाट् राज्ये शशिकला मन्त्रिमुख्या भविष्यति। 
चेन्नै>तमिळनाट् राज्यस्य विधानसभायां शासनपक्षस्य ए ऐ ए डि एम् के दलस्य नेतृस्थाने यशश्शरीरिण्याः मुख्यमन्त्रिण्याः जयललितायाः प्रियसखी शशिकला नटराजः चिता।
    ह्यः सम्पन्ने शासनपक्षदलस्य समावेशने मुख्यमन्त्री ओ. पनीर् शेल्वं शशिकलायाः नाम निरदिशत्। सभया ऐककण्ठ्येन तदङ्गीकृतम्। तदनन्तरं पनीर् शेल्वं  मुख्यमन्त्रिस्थानं परित्यक्तवान्। आगामिगुरुवासरे नियुक्तमन्त्रिमुख्यायाः स्थानारोहणं भविष्यति। राज्यपालः विद्यासागररावः राज्यस्य नवीनघटनाविशेषान् केन्दसर्वकाराय न्यवेदयितुं दिल्लीं गतवान्।

लक्षत्रयादधिकसंख्याकानां मुद्रापत्रस्य विनिमयाय प्रतिशतं शतं रुप्यकाणि दण्डः ।
नव दिल्ली > केन्द्र -बड्जट् निर्देशे लक्षत्रयाधिकानां रुप्यकाणां मुद्रापत्रक-विनिमयस्य निरोधः। नियमलंघनाय प्रतिशतं शतं रुप्यकाणां दण्डः च । उदाहरणतया मुद्रापत्रेण लक्षचतुष्टयस्य विनिमयः भविष्यति चेत् चतुर्लक्षं रुप्यकाणि दण्डवत् निभृतम् भविष्यति। नियमः एप्रिल् मासादारभ्य प्रबलः भविष्यति इति केन्द्र आयकर विभागास्य सेक्रट्टरि 'हस् मुक् आदिय' अवदत् ।
 मुद्रापत्र निरोधनेन व्याजधनस्य अनुमानं भविष्यति। भाविनिकाले एतावत् स्थितिः अनुवर्तनीयः इति मत्वा एव निरोधः I बाङ्गिङ्‌ पोस्टोफीस्, सहकृत वित्तकोशा च नियमात् बहिः संरक्षितः वर्तते।