OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 15, 2017

भारतपाकिस्थानयोः सीमायां सैनिकैः सुरङ्गः दृष्टः।
काश्मीरम् > भारत-पाकिस्थानयोः सीमायां निलीय गमनाय निर्मितः सुरङ्गः दृष्टः। सांबा जनपदे रांघर् सेक्टरतः सीमायां भटैः सुरङ्गः दृष्टः। भारतं प्रति निलीय प्रवेशनम् अनेन मार्गेण सुकरं भवति।  अपूर्णः निर्मितिः भवति अयम्। रविवासरे 'परितः सञ्चाराय' गताः सङ्घाः एव सुरङ्गः दृष्टवन्तः। २० मीट्टर् दैर्घ्यमितायाः अस्याः व्यासः सार्धद्विपादपरिमितः। पाकिस्थानस्य भूप्रदेशतः आरब्धः सुरङ्गः भारतसीमां अतिक्रम्य तिष्ठति।
जम्मूप्रदेशस्य राष्ट्रान्तरसीमायाः सुरक्षाविषयं परिगण्य वदति चेत्‌ उत्तमकार्यक्रमाणि बी एस् एफ् द्वारा कृतानि सन्ति। चतुस्संवत्सराभ्यन्तरेण दृष्टः चतुर्थः सुरङ्गः भवति अयम् ।

शशिकला अपराधिनी इति परमोन्नतनीतिपीठम्।
दिल्ली>अनधिकृतसम्पदार्जनेन अण्णा डी एम् के अध्यक्षा वी के शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्। कर्णाटका उच्चन्यायालयस्य विधिः परमोन्नत नीतिपीठेन निरोधितः। पी सी घोष्,अमिताव रोई च विधिः प्रास्तौताम्।


नाटकान्तं कारागारे। शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्।

नवदिल्ली > कथञ्चिदपि तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदम् अभिलषितवत्याः शशिकलायाः मोहः अस्तंगतः।  अविहितद्रव्यसम्पादनविषये बेङ्गलुरु अधोमण्डलनीतिपीठस्य विधिं  साधूकृत्य कर्णाटक उच्चन्यायालयस्य विधिं निरुध्य च सर्वोच्चन्यायालयस्य  अन्तिमनिर्णयः विहितः  इत्यनेन चतुस्संवत्सरपर्यन्तं कारागृहवासः दशकोटिरूप्यकाणां शुल्कदण्डनं च शशिकलया अनुभवितव्या। दशसंवत्सराणि यावत् निर्वाचनेभ्यः निवारिता च।
   न केवलं  शशिकला किन्तु बान्धवौ वि एन् सुधाकरः , इळवरशी इत्येतौ तथा दिवंगता भूतपूर्वमुख्यमन्त्रिणी जयललिता अपि दण्डनीयाः भवन्ति।  किन्तु देहवियोगत्वात् जयललितां प्रति कार्यक्रमाः समापिताः। १९९१- ९६ काले ६६.६५ कोटिरूप्यकाणां द्रव्यं सम्पादितवन्तः इत्यासीत् अपराधपत्रम्।