OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 3, 2017

भगवद्गीतादिन-समाचरण समारोहः सम्पन्नः।
 
            कोच्ची> श्रीमद् भगवद्गीता-दिन-समाचरणसमारोहः भरतस्य विविधेषु प्रदेशेषु सम्पन्नः अभवत्। केरलेषु तिरुमूष़िक्कुलं लक्ष्मण-देवालयेपि त्रिदिवसीय गीताज्ञानयज्ञस्य सम्मूर्णता अधुना भवति। पद्मश्री सुन्दर् मेनोन् वर्यः समापनमेलनं उद्घाटनं अकरोत्I  अद्यतनकाले जनाः अशान्ताः एव।  अस्मिन् सन्दर्भे एव गीताध्ययनस्य प्राधान्यम् इति सः अवदत्। चिन्मय मिषनस्य सन्यासवर्यः स्वामी जितात्मानन्द सरस्वती मुख्यभाषकः अस्ति।सर्वोपनिषदां सारसर्वस्वमेवभवति भगवद्गीता। ईश्वरानुग्रहः मनुष्यप्रयत्नः च मिलित्वा गच्छन्ति चेत् विजयं ध्रुवं अस्ति इत्यपि तेन उक्तम्। तत्वाधिष्ठिता भवति भारतस्य परम्परा। कदापि व्यक्त्यधिष्ठिता। शान्तिः मरणानन्तरं नाऽवश्यकम्, अधुना अस्मिन् सन्दर्भे एव अवश्यकम्। तदुपदिश्यते भगवता, अतः भगवद्गीता सर्वेषां कृते शान्तिः उपदिशते।
               सरस्वती विद्या निकेतन विद्यालयस्य ३०० छात्राः मिलित्वा गीतापाठं पठितवन्तः। Live 11:20