OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 8, 2017

'जालियन् वालाबाग्' - ब्रिट्टन् राष्ट्रेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभापतिः। 
           अमृतसरः > एकशतकात्पूर्वं भारते स्वतन्त्रतान्दोलनवेलायां जालियन् वालाबाग् नामके उद्याने ब्रिट्टन् अधिकारिभिः कृतायां गणहत्यायां  ब्रिट्टन् सर्वकारेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभाध्यक्षः सादिख् खान् वर्यः अवोचत्। पञ्चाबे 'जालियन् वालाबाग्' स्मारकसन्दर्शनवेलायामेव खानस्य अयं प्रस्तावः। 
        जालियन् वालाबाग् गणहत्यायाः स्मारकदर्शनेन अत्यधिकम् अस्वस्थः जातः, अविस्मरणीयः अयं दुरन्तः इति च तेन सन्दर्शकग्रन्थे लिखितम्। इमां गणहत्याम् अधिकृत्य भारतं प्रति ब्रिट्टीष् सर्वकारेण इतःपश्चादपि क्षमां याचितव्यमिति च तेन उल्लिखितम्।
        भारतस्य स्वतन्त्रताप्रक्षोभवेलायां पञ्चाबे जालियन् वालाबाग् नामके उद्याने सम्मिलितान् जनान् प्रति जनरल् डयर् नामकस्य आरक्षकाधिकारिणः नेतृत्वे संवृत्तेन भुशुण्डिप्रयोगेन ४०० जनाः हता इत्यस्ति ब्रिट्टीष् सर्वकारस्य लेख्यप्रमाणम्। किन्तु उपसहस्रमिति भारतस्य प्रामाणिकसंख्या।