OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 7, 2017

जरुसलेम् इस्रायेलस्य राजनगरीति ट्रम्पस्य प्रख्यापनं - पश्चिमेष्यायां नूतनसङ्घर्षाय बीजावापः। 
         वाषिङ्टण् > कालाकालम् अनुवर्तमानं विदेशनयं विगणय्य , जरुसलेमनगरं इस्रायेल् राष्ट्रस्य राजधानीरूपेण अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः अङ्गीकृतवान्। स्वत एव कलुषिते पश्चिमेष्यामण्डले नूतनसङ्घर्षाय हेतुः भविष्यतीदं प्रख्यापनम्। अमेरिक्कायाः सख्यराष्ट्राणि अभिव्याप्य अनेकेषां राष्ट्राणाम् अभ्यर्थनां तृणवत्कृत्य आसीत् ह्यः 'वैट् हौस्' मध्ये ट्रम्पस्य प्रख्यापनम्। जरुसलेमम् इस्रायेलस्य राजधानीरूपेण अङ्गीक्रियमाणं प्रथमराष्ट्रं भवति अमेरिका ।